तं दृष्ट्वा सहसाऽयान्तं देवशक्रप्रहारिणम् । सन्नह्य सहसा देवा रुद्रस्यानुचरा भवन् ।। २७.
रुद्रोऽपि वासुकिं ध्यात्वा तक्षकं च धनंजयम् । वलयं कटिंसूत्रं च चकार परमेश्वरः ।। २७.
नीलनामा च दैत्येन्द्रो हस्ती भूत्वा भवान्तिकम् । आगतस्त्वरितः शक्रहस्तीवोद्धतरूपवान् ।। २७.
स ज्ञातो नन्दिना दैत्यो वीरभद्राय दर्शितः । वीरभद्रोऽपि सिंहेन रूपेणाहत्य च द्रुतम् ।। २७.
तस्य कृत्तिं विदार्याशु करिणस्त्वञ्जनप्रभाम् । रुद्रायार्पितवान् सोऽपि तमेवाम्बरमाकरोत् । ततः प्रभृति रुद्रोऽपि गजचर्मपटोऽभवत् ।। २७.
गजचर्म्मपटो भूत्वा भुजंगाभरणोज्ज्वलः । आदाय त्रिशिखं भीमं सगणोऽन्धकमन्वयात् ।। २७.
ततः प्रवृत्ते युद्धे च देवदानवयोर्महत् । इन्द्राद्या लोकपालास्तु स्कन्दः सेनापतिस्तथा । सर्वे देवगणाश्चान्ये युयुधुः समरे तदा ।। २७.
तं दृष्ट्वा नारदा युद्धं ययौ नारायणं प्रति । शशंस च महद् युद्धं कैलासे दानवैः सह ।। २७.
तच्छ्रुत्वा चक्रमादाय गरुडस्थो जनार्दनः । तमेव देशमागत्य युयुधे दानवैः सह ।। २७.
आगत्य च ततो देवा हरिणाप्यायिता रणे । विषण्णवदनाः सर्वे पलायनपरा भवन् ।। २७.
तत्र भग्नेषु देवेषु स्वयं रुद्रोऽन्धकं ययौ । तत्र तेन महद्युद्धमभवल्लोमहर्षणम् ।। २७.
तत्र देवोऽप्यसौ दैत्यं त्रिशूलेनाहनद् भृशम् । तस्याहतस्य यद् रक्तमपतद् भूतले किल । तत्रान्धका असंख्याता बभूवुरपरे भृशम् ।। २७.
तद् दृष्ट्वा महदाश्चर्यं रुद्रो शूलेऽन्धकं मृधे । गृहीत्वा त्रिशिखाग्रेण ननर्त्त परमेश्वरः ।। २७.
इतरेऽप्यन्धकाः सर्वे चक्रेण परमेष्ठिना । नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः । २७.
असृग्धारातुषारैस्तु शूलप्रोतस्य चासकृत् । अनारतं समुत्तस्थुस्ततो रुद्रो रुषान्वितः ।। २७.
तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ । तद्रूपधारिणी देवी यां तां योगेश्वरीं विदुः ।। २७.
स्वरूपधारिणी चान्या विष्णुनापि विनिर्मिता । ब्रह्मणा कार्तिकेयेन इन्द्रेण च यमेन च । वराहेण च देवेन विष्णुना परमेष्ठिना ।। २७.
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे । माहेश्वरी च राजेन्द्र इत्येता अष्टमारतः ।। २७.
कारणं तानि यत्प्रोक्तं क्षेत्रज्ञेनावधारणम् । शरीराद् देवतानां तु तदिदं कीर्तितं मया ।। २७.
कामः क्रोधस्तथा लोभो मदो मोहोऽथ पञ्चमः । मात्सर्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा । असूया चाऽष्टमी ज्ञेया इत्येता अष्टमातरः ।। २७.
कामं योगेश्वरीं विद्धि क्रोधो माहेश्वरीं तथा । लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च ।। २७.
मोहः स्वयंभूः कौमारी मात्सर्यं चेन्द्रजं विदुः । यमदण्डधरा देवी पैशुन्यं स्वयमेव च । असूया च वराहाख्या इत्येताः परिकीर्तिताः ।। २७.
कामादिगण एषोऽयं शरीरे परिकीर्तितः । जग्राह मूर्त्तिं तु यथा तथा ते कीर्तितं मया ।। २७.
एताभिर्देवताभिश्च तस्य रक्तेऽतिशोषिते । क्षयं गताऽऽसुरी माया स च सिद्धोऽन्धकोऽभवत् । एतत् ते सर्वमाख्यातमात्मविद्याऽमृतं मया ।। २७.
य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् । तस्य ताः सर्वतो रक्षां कुर्वन्त्यनुदिनं नृप ।। २७.
यश्चैतत् पठते जन्म मातॄणां पुरुषोत्तम । स धन्यः सर्वदा लोके शिवलोकं च गच्छति ।। २७.
तासां च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा । एताः संपूजयेद् भक्त्या बिल्वाहारो नरः सदा । तस्य ताः परितुष्टास्तु क्षेमारोग्यं ददन्ति च ।। २७.
प्रजापाल उवाच । कथं माया समुत्पन्ना दुर्गा कात्यायनी शुभा । आदिक्षेत्रे स्थिता सूक्ष्मा पृथग्मूर्त्ता व्यजायत ।। २८.
महातपा उवाच । आसीद् राजा पुरा राजन् सिन्धुद्वीपः प्रतापवान् । वरुणांशो महाराज सोऽरण्ये तपसि स्थितः ।। २८.
पुत्रो मे शक्रनाशाय भवेदिति नारधिपः । एवं कृतमतिः सोऽथ महता तपसा स्वकम् । कलेवरं स्थितो भूत्वा शोषयामास सुव्रत ।। २८.