तानागतांस्तदा ब्रह्मा उवाच सुरसत्तमान् । किमागमनकृत्यं वो देवा ब्रूत किमास्यते ।। २७.
देवा ऊचुः । अन्धकेनार्दिताः सर्वे वयं देवा जगत्पते । त्राहि सर्वांश्चतुर्वक्त्र पितामह नमोऽस्तु ते ।। २७.
ब्रह्मोवाच । अन्धकान्नैव शक्तोऽहं त्रातुं वै सुरसत्तमाः । भवं शर्वं महादेवं व्रजाम शरणार्थिनः ।। २७.
किन्तु पूर्वं मया दत्तो वरस्तस्य सुरोत्तमाः । अवध्यस्त्वं हि भविता न शरीरं स्पृशेन्महीम् ।। २७.
तस्यैवं बलिनस्त्वेको हन्ता रुद्रः परंतपः । तत्र गच्छामहे सर्वे कैलासनिलयं प्रभुम् ।। २७.
एवमुक्त्वा ययौ ब्रह्मा सदेवो भवसन्निधौ । तस्य संदर्शनाद् रुद्रः प्रत्युत्थानादिकाः क्रियाः । कृत्वाभ्युवाच देवेशो ब्रह्माणं भुवनेश्वरम् ।। २७.
शंभुरुवाच । किं कार्यं देवताः सर्वा आगता मम सन्निधौ । येनाहं तत्करोम्याशु आज्ञा कार्या हि सत्वरम् ।। २७.
देवा ऊचुः । रक्षस्व देव बलिनस्त्वन्धकाद् दुष्टचेतसः ।। २७.
यावदेवं सुरा सर्वे शंसन्ति परमेष्ठिनः । तावत् सैन्येन महता तत्रैवान्धक आययौ ।। २७.
बलेन चतुरङ्गेण हन्तुकामो भवं मृधे । तस्य भार्यां गिरिसुतां हर्तुमिच्छन् ससाधनः ।। २७.
तं दृष्ट्वा सहसाऽयान्तं देवशक्रप्रहारिणम् । सन्नह्य सहसा देवा रुद्रस्यानुचरा भवन् ।। २७.
रुद्रोऽपि वासुकिं ध्यात्वा तक्षकं च धनंजयम् । वलयं कटिंसूत्रं च चकार परमेश्वरः ।। २७.
नीलनामा च दैत्येन्द्रो हस्ती भूत्वा भवान्तिकम् । आगतस्त्वरितः शक्रहस्तीवोद्धतरूपवान् ।। २७.
स ज्ञातो नन्दिना दैत्यो वीरभद्राय दर्शितः । वीरभद्रोऽपि सिंहेन रूपेणाहत्य च द्रुतम् ।। २७.
तस्य कृत्तिं विदार्याशु करिणस्त्वञ्जनप्रभाम् । रुद्रायार्पितवान् सोऽपि तमेवाम्बरमाकरोत् । ततः प्रभृति रुद्रोऽपि गजचर्मपटोऽभवत् ।। २७.
गजचर्म्मपटो भूत्वा भुजंगाभरणोज्ज्वलः । आदाय त्रिशिखं भीमं सगणोऽन्धकमन्वयात् ।। २७.
ततः प्रवृत्ते युद्धे च देवदानवयोर्महत् । इन्द्राद्या लोकपालास्तु स्कन्दः सेनापतिस्तथा । सर्वे देवगणाश्चान्ये युयुधुः समरे तदा ।। २७.
तं दृष्ट्वा नारदा युद्धं ययौ नारायणं प्रति । शशंस च महद् युद्धं कैलासे दानवैः सह ।। २७.
तच्छ्रुत्वा चक्रमादाय गरुडस्थो जनार्दनः । तमेव देशमागत्य युयुधे दानवैः सह ।। २७.
आगत्य च ततो देवा हरिणाप्यायिता रणे । विषण्णवदनाः सर्वे पलायनपरा भवन् ।। २७.
तत्र भग्नेषु देवेषु स्वयं रुद्रोऽन्धकं ययौ । तत्र तेन महद्युद्धमभवल्लोमहर्षणम् ।। २७.
तत्र देवोऽप्यसौ दैत्यं त्रिशूलेनाहनद् भृशम् । तस्याहतस्य यद् रक्तमपतद् भूतले किल । तत्रान्धका असंख्याता बभूवुरपरे भृशम् ।। २७.
तद् दृष्ट्वा महदाश्चर्यं रुद्रो शूलेऽन्धकं मृधे । गृहीत्वा त्रिशिखाग्रेण ननर्त्त परमेश्वरः ।। २७.
इतरेऽप्यन्धकाः सर्वे चक्रेण परमेष्ठिना । नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः । २७.
असृग्धारातुषारैस्तु शूलप्रोतस्य चासकृत् । अनारतं समुत्तस्थुस्ततो रुद्रो रुषान्वितः ।। २७.
तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ । तद्रूपधारिणी देवी यां तां योगेश्वरीं विदुः ।। २७.
स्वरूपधारिणी चान्या विष्णुनापि विनिर्मिता । ब्रह्मणा कार्तिकेयेन इन्द्रेण च यमेन च । वराहेण च देवेन विष्णुना परमेष्ठिना ।। २७.
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे । माहेश्वरी च राजेन्द्र इत्येता अष्टमारतः ।। २७.
कारणं तानि यत्प्रोक्तं क्षेत्रज्ञेनावधारणम् । शरीराद् देवतानां तु तदिदं कीर्तितं मया ।। २७.
कामः क्रोधस्तथा लोभो मदो मोहोऽथ पञ्चमः । मात्सर्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा । असूया चाऽष्टमी ज्ञेया इत्येता अष्टमातरः ।। २७.