देवा ऊचुः । भवान् प्रसूतिर्जगतः पुराणः क्षयामलैव प्रदहन् जगन्ति । समुत्थितो नाथ शमं प्रयाहि मा देवलोकान् प्लुष कर्मसाक्षिन् ।। २६.
त्वया ततं सर्वत एव तेजः प्रतापिना सूर्य यजुःप्रवृत्ते । तिग्मं रथाङ्गं तव देवकल्पं कालाख्यमध्वान्तकरं वदन्ति ।। २६.
प्रभाकरसक्त्वं रविरादिदेव आत्मा समस्तस्य चराचरस्य । पितामहसक्त्वं वरुणो यमश्च भूतं भविष्यच्च वदन्ति सिद्धाः ।। २६.
ध्वान्तं प्रणु त्वं सुरलोकपूज्य प्रयाहि शान्तिं पितरो वदन्ति । वेदान्तवेद्योऽसि मखेषु देव त्वं हूयसे विष्णुरसि प्रसह्य । इति स्तुतस्तैः सुरनाथ भक्त्या प्रपाहि शंभो न इति प्रसह्य ।। २६.
एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् । प्रकाशत्वं जगामाशु देवतानां महाप्रभः ।। २६.
एतत्सर्वं सुराणां तु दहनं शामितं पुरा । सप्तम्यां खलु सूर्येण मूर्त्तित्वं कृतवान् भुवि ।। २६.
एतां यः पुरुषो भक्त्या उपास्ते सूर्यमर्चयेत् । भास्करेण च तस्यासौ फलमिष्टं प्रयच्छति ।। २६.
एतत् ते कथितं राजन् सूर्याख्यानं पुरातनम् । आदिमन्वन्तरे वृत्तं मातरः श्रृणु सांप्रतम् ।। २६.
महातपा उवाच । पूर्वमासीन्महादैत्यो बलवानन्धको भुवि । स देवान् वशमानिन्ये ब्रह्मणो वरदर्पितः ।। २७.
तेनात्मवान् सुराः सर्वे त्याजिता मेरुपर्वतम् । ब्रह्माणं शरणं जग्मुरन्धकस्य भयार्दिताः ।। २७.
तानागतांस्तदा ब्रह्मा उवाच सुरसत्तमान् । किमागमनकृत्यं वो देवा ब्रूत किमास्यते ।। २७.
देवा ऊचुः । अन्धकेनार्दिताः सर्वे वयं देवा जगत्पते । त्राहि सर्वांश्चतुर्वक्त्र पितामह नमोऽस्तु ते ।। २७.
ब्रह्मोवाच । अन्धकान्नैव शक्तोऽहं त्रातुं वै सुरसत्तमाः । भवं शर्वं महादेवं व्रजाम शरणार्थिनः ।। २७.
किन्तु पूर्वं मया दत्तो वरस्तस्य सुरोत्तमाः । अवध्यस्त्वं हि भविता न शरीरं स्पृशेन्महीम् ।। २७.
तस्यैवं बलिनस्त्वेको हन्ता रुद्रः परंतपः । तत्र गच्छामहे सर्वे कैलासनिलयं प्रभुम् ।। २७.
एवमुक्त्वा ययौ ब्रह्मा सदेवो भवसन्निधौ । तस्य संदर्शनाद् रुद्रः प्रत्युत्थानादिकाः क्रियाः । कृत्वाभ्युवाच देवेशो ब्रह्माणं भुवनेश्वरम् ।। २७.
शंभुरुवाच । किं कार्यं देवताः सर्वा आगता मम सन्निधौ । येनाहं तत्करोम्याशु आज्ञा कार्या हि सत्वरम् ।। २७.
देवा ऊचुः । रक्षस्व देव बलिनस्त्वन्धकाद् दुष्टचेतसः ।। २७.
यावदेवं सुरा सर्वे शंसन्ति परमेष्ठिनः । तावत् सैन्येन महता तत्रैवान्धक आययौ ।। २७.
बलेन चतुरङ्गेण हन्तुकामो भवं मृधे । तस्य भार्यां गिरिसुतां हर्तुमिच्छन् ससाधनः ।। २७.
तं दृष्ट्वा सहसाऽयान्तं देवशक्रप्रहारिणम् । सन्नह्य सहसा देवा रुद्रस्यानुचरा भवन् ।। २७.
रुद्रोऽपि वासुकिं ध्यात्वा तक्षकं च धनंजयम् । वलयं कटिंसूत्रं च चकार परमेश्वरः ।। २७.
नीलनामा च दैत्येन्द्रो हस्ती भूत्वा भवान्तिकम् । आगतस्त्वरितः शक्रहस्तीवोद्धतरूपवान् ।। २७.
स ज्ञातो नन्दिना दैत्यो वीरभद्राय दर्शितः । वीरभद्रोऽपि सिंहेन रूपेणाहत्य च द्रुतम् ।। २७.
तस्य कृत्तिं विदार्याशु करिणस्त्वञ्जनप्रभाम् । रुद्रायार्पितवान् सोऽपि तमेवाम्बरमाकरोत् । ततः प्रभृति रुद्रोऽपि गजचर्मपटोऽभवत् ।। २७.
गजचर्म्मपटो भूत्वा भुजंगाभरणोज्ज्वलः । आदाय त्रिशिखं भीमं सगणोऽन्धकमन्वयात् ।। २७.
ततः प्रवृत्ते युद्धे च देवदानवयोर्महत् । इन्द्राद्या लोकपालास्तु स्कन्दः सेनापतिस्तथा । सर्वे देवगणाश्चान्ये युयुधुः समरे तदा ।। २७.
तं दृष्ट्वा नारदा युद्धं ययौ नारायणं प्रति । शशंस च महद् युद्धं कैलासे दानवैः सह ।। २७.
तच्छ्रुत्वा चक्रमादाय गरुडस्थो जनार्दनः । तमेव देशमागत्य युयुधे दानवैः सह ।। २७.
आगत्य च ततो देवा हरिणाप्यायिता रणे । विषण्णवदनाः सर्वे पलायनपरा भवन् ।। २७.