देवा ऊचुः । सेनापतिं नो देवेश देहि दैत्यवधाय वै । देवानां ब्रह्ममुख्यानामेतदेव हितं भवेत् ।। २५.
रुद्र उवाच । ददामि सेनानाथं वो देवा भवत विज्वराः । भविष्यमस्ति पौराणं योगादीनामचिन्तयन् ।। २५.
एवमुक्त्वा हरो देवान् विसृज्य स्वाङ्गसंस्थिताम् । शक्तिं संक्षोभयामास पुत्रहेतोः परंतप ।। २५.
तस्य क्षोभयतः शक्तिं ज्वलनार्कसमप्रभः । कुमारः सहजां शक्तिं बिभ्रज्ज्ञानैकशालिनीम् ।। २५.
उत्पत्तिस्तस्य राजेन्द्र बहुरूपा व्यवस्थिता । मन्वन्तरेष्वनेकेषु देवसेनापतिः किल ।। २५.
योऽसौ शरीरगो देवः अहंकारेति कीर्त्तितः । प्रयोजनवशाद् देवः सैव सेनापतिर्विभो ।। २५.
तस्मिन् जाते स्वयं ब्रह्मा सर्वदैवैः समन्वितः । पूजयामास देवेशं शिवं पशुपतिं तदा ।। २५.
सर्वैश्च देवै ऋषिभिश्च सिद्धैः सेनापतिर्वरदानेन तेन । आप्यायितः सोऽपि सुरानुवाच सखायार्थं क्रडने कार्यमेव ।। २५.
श्रुत्वा वचस्तस्य् महानुभावो महादेवो वाक्यमिदं जगाद । ददामि ते क्रीडनकं तु कुक्कुटं तथानुगौ शाखविशाखसंज्ञौ । कुमार भूतग्रहनायको भवान् भवस्व देवेश्वर सेनयापतिः ।। २५.
एवमुक्त्वा ततो देवः सर्वे देवाश्च पार्थिव । तुष्टुवुर्वाग्भिरिष्टाभिः स्कन्दं सेनापतिं तदा ।। २५.
देवा ऊचुः । भवस्व देवसेनानीर्महेश्वरसुत प्रभो । षण्मुख स्कन्द विश्वेश कुक्कुटध्वज पावके ।। २५.
कम्पितारे कुमारेश स्कन्द बालग्रहानुग । जितारे क्रौञ्चविध्वंस कृत्तिकासुत मातृज ।। २५.
भूतग्रहपतिश्रेष्ठ पावकि प्रियदर्शन । महाभूतपतेः पुत्र त्रिलोचन नमोऽस्तु ते ।। २५.
एवं स्तुतस्तदा देवैर्ववर्ध भवनन्दनः । द्वादशादित्यसंकाशो बभूवाद्भुतदर्शनः । त्रैलोक्यमपि तत्तेजस्तापयामास पार्थिव ।। २५.
प्रजापाल उवाच । कथं तं कृत्रिकापुत्रमुक्तवन्तः सुरं गुरुम् । कथं च पावकिरसौ कथं वा मातृनन्दनः ।। २५.
महातपा उवाच । आदिमन्वन्तरे देव उत्पत्तिर्या मयोदिता । परोक्षदर्शिभिर्देवैरेवमेव स्तुतः प्रभुः ।। २५.
कृत्तिका पावकस्त्वन्यमातरो गिरिजा तथा । द्विजीयजन्मनि गुहस्यैते उत्पत्तिहेतवः ।। २५.
एवमेतत् तवाख्यातं पृच्छतः पार्थिवोत्तम । आत्मविद्याऽमृतं गुह्यमहंकारस्य संभवः ।। २५.
स्वयं स्कन्दो महादेवः सर्वपापप्रणाशनः । तस्य षष्ठीं तिथिं प्रादादभिषेके पितामहः ।। २५.
एतां फलाशनो यस्तु क्षयेन्नियतमानसः । अपुत्रोऽपि लभेत् पुत्रानधनोऽपि धनं लभेत् । यं यमिच्छेत मनसा तं तं लभति मानवः ।। २५.
यश्चैतत् पठति स्तोत्रं कार्तिकेयस्य मानवः । तस्य गेहे कुमाराणां क्षेमारोग्यं भविष्यति ।। २५.
प्रजापाल उवाच । शरीरस्य कथं मूर्तिग्रहणं ज्योतिषो द्विज । एतन्मे संशयं छिन्धि प्रणतस्य द्विजोत्तम ।। २६.
महातपा उवाच । योऽसावात्मा ज्ञानशक्तिरेक एव सनातनः । स द्वितीयं यदा चैच्छत् तदा स्वात्मस्थितो ज्वलत् ।। २६.
यः सूर्य इति भास्वांस्तु अन्योन्येन महात्मनः । लोलीभूतानि तेजांसि भासयन्ति जगत्त्रयम् ।। २६.
तस्मिन् सर्वे सुराः सिद्धा गणाः सर्वे महर्षिभिः । समं सूता इति विभो तस्मात् सूर्यो भवन् स्तुतः ।। २६.
लोलीभूतस्य तस्याशु तेजसोऽभूच्छरीरकम् । पृथक्त्वेन रविः सोऽथ कीर्त्त्यते वेदवादिभिः ।। २६.
भासयन् सर्वलोकांस्तु यतोऽसावुत्थितो दिवि । अतोऽसौ भास्करः प्रोक्तः प्रकर्षाच्च प्रभाकरः ।। २६.
दिवा दिवस इत्युक्तस्तत्कारित्वाद् दिवाकरः । सर्वस्य जगतस्त्वादिरादित्यस्तेन उच्यते ।। २६.
एतस्य द्वादशादित्याः संभूतास्तेजसा पृथक् । प्रधान एव सर्वेषां सर्वदा स विबुध्यते ।। २६.
तं दृष्ट्वा जगतो व्याप्तिं कुर्वाणं परमेश्वरम् । तस्यैवान्तः स्थिता देवा विनिष्क्रम्य स्तुतिं जगुः ।। २६.