एतस्यां संयतो यस्तु अम्लं तु परिवर्जयेत् । क्षीरेण स्नापयेन्नागांस्तस्य यास्यन्ति मित्रताम् ।। २४.
प्रजापाल उवाच । अहंकारात् कथं जज्ञे कार्त्तिकेयो द्विजोत्तम । एतन्मे संशयं छिन्धि पृच्छतो वै महामुने ।। २५.
महातपा उवाच । सर्वेषामेव तत्त्वानां यः परः पुरुषः स्मृतः । तस्मादव्यक्तमुत्पन्नं तत्त्वादि त्रिविधं तु तत् ।। २५.
पुरुषाव्यक्तयोर्मध्ये महत्त्वं समपद्यत । स चाहंकार इत्युक्तो यो महान् समुदाहृतः ।। २५.
पुरुषो विष्णुरित्युक्तः शिवो वा नामतः स्मृतः । अव्यक्तं तु उमा देवी श्रीर्वा पद्मनिभेक्षणा ।। २५.
तत्संयोगादहंकारः स च सेनापतिर्गुहः । तस्योत्पत्तिं प्रवक्ष्यामि श्रृणु राजन् महामते ।। २५.
आद्यो नारायणो देवस्तस्माद् ब्रह्मा ततोऽभवत् । अतः स्वयंभुवश्चान्ये मरीच्याद्यार्कसंभवाः ।। २५.
तेष्वारभ्य सुरा दैत्या गन्धर्वा मानुषाः खगाः । पशवः सर्वभूतानि सृष्टिरेषा प्रकीर्तिता ।। २५.
सृष्ट्यां विस्तारितायां तु देवदैत्या महाबलाः । सापत्न्यं भावमास्थाय युयुधुर्विजिगीषवः ।। २५.
दैत्यानां बलिनः सन्ति नायका युद्धदुर्मदाः । हिरण्यकशिपुः पूर्वं हिरण्याक्षो महाबलः । विप्रचित्तिर्विचित्तिश्च भीमाक्षः क्रौञ्च एव च ।। २५.
एतेऽतिबलिनः शूरा देवसैन्यं महामृधे । अनारतं सितैर्बाणैर्जयन्तेऽनुदिनं मृधे ।। २५.
तेषां पराजयं दृष्ट्वा देवानां तु बृहस्पतिः । उवाच हीनं वः सैन्यं नायकेन विना सुराः ।। २५.
एकेनेन्द्रेण दिव्यं तु सैन्यं पातुं न शक्यते । अतः सेनापतिं किञ्चिदन्वेषयत माचिरम् ।। २५.
एवमुक्तास्ततो देवा जग्मुर्लोकपितामहम् । सेनापतिं च नो देहि वाक्यमूचुः ससंभ्रमम् ।। २५.
ततो दध्यौ चतुर्वक्त्रः किमेषां क्रियते मया । ब्रह्माऽथ चिन्तयामास रुद्रं प्रति मनोगतम् ।। २५.
ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः । ब्रह्माणं पुरतः कृत्वा जग्मुः कैलासपर्वतम् ।। २५.
तत्र दृष्ट्वा महादेवं शिवं पशुपतिं विभुम् । तुष्टवुर्विविधैस्तोत्रैः शक्राद्यास्त्रिदिवौकसः ।। २५.
देवा ऊचुः । नमाम सर्वे शरणार्थिनो वयं महेश्वरं त्र्यम्बकभूतभावनम् । उमापते विश्वपते मरुत्पते जगत्पते शंकर पाहि नः स्वयम् ।। २५.
जटाकलापाग्रशशाङ्कदीधिति- प्रकाशिताशेषजगत्त्रयामल । त्रिशूलपाणे पुरुषोत्तमाच्युत प्रपाहि दैत्याच्च जगत्त्रयोदरे ।। २५.
त्वमादिदेवः पुरुषोत्तमो हरि- र्भवो महेशस्त्रिपुरान्तको विभुः । भगाक्षिहा दैत्यरिपुः पुरातनो वृषध्वजः पाहि सुरोत्तमोत्तम ।। २५.
गिरीशजानाथ गिरिप्रियाप्रिय प्रभो समस्तामरलोकपूजित । गणेश भूतेश शिवाक्षयाव्यय प्रपाहि नो दैत्यवरान्तकाच्युत ।। २५.
पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो ध्वनिस्वरूपो गगने विशेषतः । वायौ द्विधा तेजसि च त्रिधा जले चतुः क्षितौ पञ्चगुणः प्रपाहि नः ।। २५.
अग्निस्वरूपोऽसि तरौ तथोपले सत्त्वस्वरूपोऽसि तथा जलेष्वपि । तेजःस्वरूपो भगवान् महेश्वरः प्रपाहि नो दैत्यगणार्दितान् हर ।। २५.
नासीद्यदाऽकाण्डमिदं त्रिलोचन प्रभाकरेन्द्रद्रविणाधिपाः कुतः । तदा भवानेव विरुद्धलोचन प्रमाणबाधादिविवर्जितः स्थितः ।। २५.
कपालमालिन् शशिखण्डशेखर श्मशानवासिन् सितभस्मगुण्ठित । फणीन्द्रसंवीततनोऽन्तकापह प्रपाहि नो दक्षधिया सुरेश्वर ।। २५.
भवान् पुमान् शक्तिरियं गिरेः सुता सर्वाङ्गरूपा भगवंस्तथा त्वयि । त्रिशूलरूपेण जगत्त्रयं करे स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ।। २५.
जटास्वरूपेण समस्तसागराः कुलाचलाः सिन्धुवहाश्च सर्वशः । शशी परं ज्ञानमिदं तव स्थितं न देव पश्यन्ति कुदृष्टयो जनाः ।। २५.
नारायणस्त्वं जगतां समुद्भव- स्तथा भवः सैव चतुर्मुखो भवान् । सत्त्वादिभेदेन तथाग्निभेदतो युगादिभेदेन च संस्थितस्त्रिधा ।। २५.
भवन्तमेते सुरनायकाः प्रभो भवार्थिनोऽन्यस्य वदन्ति तोषयन् । यतस्ततो नो भव भूतिभूषण प्रपाहि विश्वेश्वर रुद्र ते नमः ।। २५.
महातपा उवाच । एवं स्तुतस्तदा देवो रुद्रः पशुपतिः सुरैः । उवाच देवानव्यग्रः किं कार्यं ब्रूत मा चिरम् ।। २५.