प्रजापाल उवाच । भगवंस्तार्क्षविषयाः कथं मूर्त्तिमुपागताः । नागा बभूवुः कुटिला एतदाख्यातुमर्हसि ।। २४.
महातपा उवाच । सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् । प्रथमं मनसा ध्यातस्तस्य पुत्रस्तु कश्यपः ।। २४.
तस्य दाक्षायणी भार्या कद्रूर्नाम शुचिस्मिता । मारीचो जनयामास तस्यां पुत्रान् महाबलान् ।। २४.
अनन्तं वासुकिं चैव कम्बलं च महाबलम् । कर्कोटकं च राजेन्द्र पद्मं चान्यं सरीसृपम् ।। २४.
महापद्मं तथा शङ्खं कुलिकं चापराजितम् । एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ।। २४.
एतेषां तु प्रसूत्या तु इदमापूरितं जगत् । कुटिला हीनकर्माणस्तीक्ष्णास्योत्थविषोल्बणाः । दृष्ट्वा संदश्य मनुजान् कुर्युर्भस्म क्षणाद् ध्रुवम् ।। २४.
शब्दगामी यथा स्पर्शं मनुष्याणां नराधिप । अहन्यहनि जायेत क्षयः परमदारुणः ।। २४.
आत्मनस्तु क्षयं दृष्ट्वा प्रजाः सर्वाः समन्ततः । जग्मुः शरण्यं शरणं परं तु परमेश्वरम् ।। २४.
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते । ऊचुः कमलजं विष्णुं पुराणं ब्रह्मसंज्ञितम् ।। २४.
देवा ऊचुः । देवदेवेश लोकानां प्रसूति परमेश्वर । त्राहि नस्तीक्ष्णदंष्ट्राणां भुजंगानां महात्मनाम् ।। २४.
अहन्यहनि ये देव पश्येयुरुरगा दृशा । मनुष्यपशुरूपं वा तत्सर्वं भस्मसाद् भवेत् ।। २४.
त्वया सृष्टिः कृता देव नीयते सा भुजंगामैः । एतज्ज्ञात्वा तु दुर्वृत्तं तत्कुरुष्व महामते ।। २४.
ब्रह्मोवाच । अहं रक्षां विधास्यामि भवतीनां न संशयः । व्रजध्वं स्वानि धिष्ण्यानि प्रजा माभूत् ससाध्वसा ।। २४.
एवमुक्त्वा प्रजास्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना । आजग्मुः परमप्रीत्या नत्वा चैव स्वयंभुवे ।। २४.
आगतासु प्रजास्वाद्यस्तानाहूय भुजंगमान् । शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा ।। २४.
ब्रह्मोवाच । यतो मत्प्रभवान् नित्यं क्षयं नयत मानुषान् । भवान्तरे अथान्यस्मिन् मातुः शापात् सुदारुणात् । भविताऽतिक्षयं घोरं नूनं स्वायंभुवेऽन्तरे ।। २४.
एवमुक्तास्तु वेपन्तो ब्रह्माणं भुजगोत्तमाः । निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा ।। २४.
नागा ऊचुः । भगवन् कुटिला जातिरस्माकं भवता कृता । विषोल्बणत्वं क्रूरत्वं दृक्शस्त्रत्वं च नस्त्वया । संपादितं त्वया देव इदानीं शमयाच्युत ।। २४.
ब्रह्मोवाच । यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः । ततः किं मनुजान् नित्यं भक्षयध्वं गतव्यथाः ।। २४.
नागा ऊचुः । मर्यादां कुरु देवेश स्थानं चैव पृथक् पृथक् । मनुष्याणां तथाऽस्माकं समयं च पृथक् पृथक् । नागानां वचनं श्रुत्वा देवो वचनमब्रवीत् ।। २४.
अहं करोमि वो नागाः समयं मनुजैः सह । तदेकमनसः सर्वे श्रृणुध्वं मम शासनम् ।। २४.
पातालं वितलं चैव हर्म्याख्यं च तृतीयकम् । दत्तं चैव सदा रम्यं गृहं तत्र गमिष्यथ ।। २४.
तत्र भोगान् बहुविधान् भुञ्जाना मम शासनात् । तिष्ठध्वं सप्तमं यावद् रात्र्यन्तं तु पुनः पुनः ।। २४.
ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ । दायादाः सर्वदेवानां सुपर्णस्य च धीमतः ।। २४.
तदा प्रसूतिर्वः सर्वा भोक्ष्यते चित्रभानुना । भवतां नैव दोषोऽयं भविष्यति न संशयः ।। २४.
ये वै क्रूरा भोगिनो दुर्विनीता - स्तेषामन्तो भविता नान्यथैतत् । कालप्राप्तं भक्षयध्वं दशध्वं तथाऽपकारे च कृते मनुष्यम् ।। २४.
मन्त्रौषधैर्गारुडमण्डलैश्च बद्धैर्दृष्टैर्मानवा ये चरन्ति । तेषां भीतैर्वर्त्तितव्यं न चान्य- च्चिन्त्यं कार्यं चान्यथा वो विनाशः ।। २४.
इतीरिते ब्रह्मणा ते भुजङ्गा जग्मुः स्थानं क्ष्मातलाख्यं हि सर्वे । तस्थुर्भोगान् भुञ्जमानाः समग्रान् रसातले लीलया संस्थितास्ते ।। २४.
एवं शापं तु ते लब्ध्वा प्रसादं च चतुर्मुखात् । तस्थुः पातालनिलये मुदितेनान्तरात्मना ।। २४.
एतत् सर्वं च पञ्चम्यां तेषां जातं महात्मनाम् । अतस्त्वियं तिथिर्धन्या सर्वपापहरा शुभा ।। २४.