ततोऽहं निर्गतो राजंस्तपसे धृतमानसः । सारस्वतं नाम सरो यदेतत् पुष्करं स्मृतम् ।। ३.
तत्र गत्वा मया विष्णुः पुराणः पुरुषः शिवः । आराधितो मया भक्त्या जपं नारायणात्मकम् ।। ३.
ब्रह्मपारमयं राजन् जपता परमं स्तवम् । ततो मे भगवांस्तुष्टः प्रत्यक्षत्वं जगाम ह ।। ३.
प्रियव्रत उवाच । कीदृशं ब्रह्मपारं तु श्रोतुमिच्छामि सत्तम । कथयस्व प्रसादेन देवर्षे सुप्रसन्नधीः ।। ३.
नारद उवाच । परं पराणाममृतं पुराणं पारं परं विष्णुमनन्तवीर्यम् । नमामि नित्यं पुरुषं पुराणं परायणं पारगतं पराणाम् ।। ३.
पुरातनं त्वप्रतिमं पुराणं परापरं पारगमुग्रतेजसम् । गम्भीरगम्भीरधियां प्रधानं नतोऽस्मि देवं हरिमीशितारम् ।। ३.
परात्परं चापरमं प्रधानं परास्पदं शुद्धपदं विशालम् । परात्परेशं पुरुषं पुराणं नारायणं स्तौमि विशुद्धभावः ।। ३.
पुरा पुरं शून्यमिदं ससर्ज्ज तदा स्थितत्वात् पुरुषः प्रधानः । जने प्रसिद्धः शरणं ममास्तु नारायणो वीतमलः पुराणः ।। ३.
पारं परं विष्णुमपाररूपं पुरातनं नीतिमतां प्रधानम् । धृतक्षमं शान्तिधरं क्षितीशं शुभं सदा स्तौमि महानुभावम् ।। ३.
सहस्त्रमूर्धानमनन्तपाद- मनेकबाहुं शशिसूर्यनेत्रम् । क्षराक्षरं क्षीरसमुद्रनिद्रं नारायणं स्तौम्यमृतं परेशम् ।। ३.
त्रिवेदगम्यं त्रिनवैकमूर्तिं त्रिशुक्लसंस्थं त्रिहुताशभेदम् । त्रितत्त्वलक्ष्यं त्रियुगं त्रिनेत्रं नमामि नारायणमप्रमेयम् ।। ३.
कृते सितं रक्ततनुं तथा च त्रेतायुगे पूततनुं पुराणम् । तथा हरिं द्वापरतः कलौ च कृष्णीकृतात्मानमथो नमामि ।। ३.
ससर्ज यो वक्त्रत एव विप्रान् भुजान्तरे क्षत्रमथोरुयुग्मे । विशः पदाग्रेषु तथैव शूद्रान् नमामि तं विश्वतनुं पुराणम् ।। ३.
परात्परं पारगतं प्रमेयं युधांपतिं कार्यत एव कृष्णम्। गदासिचर्मण्यभृतोत्थपाणिं नमामि नारायणमप्रमेयम् ।। ३.
इति स्तुतो देववरः प्रसन्नो जगाद मां नीरदतुल्यघोषः । वरं वृणीष्वेत्यसकृत् ततोऽहं तस्यैव देहे लयमिष्टवांश्च ।। ३.
इति श्रुत्वा वचो मह्यं देवदेवः सनातनः । उवाच प्रकृतिं विप्र संसरस्वाक्षयामिमाम् ।। ३.
ब्रह्मणो युगसाहस्त्रं तत्ते तस्मात् समुद्भवः । भविता ते तथा नाम दास्यते संप्रयोजनम् ।। ३.
नारं पानीयमित्युक्तं तं पितॄणां सदा भवान् । ददाति तेन ते नाम नारदेति भविष्यति ।। ३.
एवमुक्त्वा गतो देवः सद्योऽदर्शनमुच्चकैः । अहं कलेवरं त्यक्त्वा कालेन तपसा तदा ।। ३.
ब्रह्मणोऽङ्गे लयं प्राप्तस्तदोत्पत्तिं च पार्थिव । दिवसे तु पुनः सृष्टो दशभिस्तनयैः सह ।। ३.
दिनादिर्यो हि देवस्य ब्रह्मणोऽव्यक्तजन्मनः । स सृष्ट्यादिः समस्तानां देवादीनां न संशयः ।। ३.
सर्वस्य जगतः सृष्टिरेषैव प्रभुधर्मतः । एतन्मे प्राकृतं जन्म यन्मां पृच्छसि पार्थिव ।। ३.
तस्मान्नारायणं ध्यात्वा प्राप्तोऽस्मि परतो नृप । तस्मात् त्वमपि राजेन्द्र भव विष्णुपरायणः ।। ३.
धरण्युवाच । योऽसौ नारायणो देवः परमात्मा सनातनः । भगवन् सर्वभावेन उताहो नेति शंस मे ।। ४.
श्रीवराह उवाच । मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।। ४.
इत्येताः कथितास्तस्य मूर्त्तयो भूतधारिणि । दर्शनं प्राप्तुमिच्छूनां सोपानानीव शोभते ।। ४.
यत् तस्य परमं रूपं तन्न पश्यन्ति देवताः । अस्मदादिस्वरूपेण पूरयन्ति ततो धृतिम् ।। ४.
ब्रह्मा भगवतो मूर्त्या रजसस्तमसस्तथा । याभिः संस्थाप्यते विश्वं स्थितौ संचाल्यते च ह ।। ४.
त्वमेका तस्य देवस्य मूर्तिराद्या धराधरे । द्वितीया सलिलं मूर्तिस्तृतीया तैजसी स्मृता ।। ४.
चतुर्थी वायुमूर्तिः स्यादाकाशाख्या तु पञ्चमी । एतास्तु मूरत्यस्तस्य क्षेत्रज्ञत्वं हि मद्धियाम् । मूर्त्तित्रयं तथा तस्य इत्येताश्चाष्टमूर्तयः ।। ४.