यथा यथाऽसौ स शरीरमाद्यं धुनोति देवस्त्रिशिखास्त्रपाणिः । तथा तथा चाङ्गरुहाश्चकासु- र्जलं क्षितौ संन्यपतंस्तथान्याः ।। २३.
विनायकानेकविधा गजास्या - स्तमालनीलाञ्जनसंनिकाशाः । उत्तस्थुरुच्चैर्विविधास्त्रहस्ता - स्ततस्तु देवा मनसाकुलेन ।। २३.
किमेतदित्यद्भुतकर्मकारी ह्येकः करोत्यप्रतिमं महच्च । कार्यं सुराणां कृतमेतदिष्टं भवेदथैतं परितं कुतस्तत् ।। २३.
दिवौकसां चिन्तयतां तथा तु विनायकैः क्ष्मा क्षुभिता बभूव । चतुर्मुखश्चाप्रतिमो विमान - मारुह्य खे वाक्यमिदं जगाद ।। २३.
धन्याः स्थ देवाः सुरनायकेन त्रिलोचनेनाद्भुतरूपिणा च । अनुगृहीताः परमेश्वरेण सुरद्विषां विघ्नकृतां नतौ च ।। २३.
इत्येवमुक्त्वा प्रपितामहस्ता - नुवाच देवस्त्रिशिखास्त्रपाणिम् । यस्ते विभो वक्त्रसमुद्भवः प्रभु- र्विनायकानां भवतु त्विमेऽनुगाः ।। २३.
भवांस्तथाऽस्यात्मवरेण चाम्बरे त्वया चतुर्ष्वस्तु शरीरचारी । आकाशमेतद् बहुधा व्यवस्थितं त्वया वरेण्यः कृत एव नान्यः ।। २३.
प्रभुर्भव त्वं प्रतिमास्त्रपाणिना इमानि चास्त्राणि वरांश्च देहि । इत्येवमुक्त्वाऽधिगते पितामहे त्रिलोचनश्चात्मभवं जगाद ।। २३.
विनायको विघ्नकरो गजास्यो गणेशनामा च भवस्य पुत्रः । एते च सर्वे तव यान्तु भृत्या विनायकाः क्रूरदृशः प्रचण्डाः । उच्छुष्मदानादिविवृद्धदेहाः कार्येषु सिद्धिं प्रतिपादयन्तः ।। २३.
भवांश्च देवेषु तथा मखेषु कार्येषु चान्येषु महानुभावात् । अग्रेषु पूजां लभतेऽन्यथा च विनाशयिष्यस्यथ कार्यसिद्धिम् ।। २३.
इत्येवमुक्त्वा परमेश्वरेण सुरैः समं काञ्चनकुम्भसंस्थैः । जलैस्तथासावभिषिक्तगात्रो रराज राजेन्द्र विनायकानाम् ।। २३.
दृष्टवाऽभिषिच्यमानं तु देवास्तं गणनायकम् । तुष्टुवुः प्रयताः सर्वे त्रिशूलास्त्रस्य सन्निधौ ।। २३.
देवा ऊचुः । नमस्ते गजवक्त्राय नमस्ते गणनायक । विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ।। २३.
नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल । नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ।। २३.
सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा । एवं स्तुतस्तदा देवैर्महात्मा गणनायकः । अभिषिक्तश्च रुद्रस्य सोमस्यापत्यतां गतः ।। २३.
एतच्चतुर्थ्यां संपन्नं गणाध्यक्षस्य पार्थिव । यतस्ततोऽयं महती तिथीनां परमा तिथिः ।। २३.
एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप । आराधयति तस्याशु तुष्यते नात्र संशयः ।। २३.
यश्चैतत् पठते स्तोत्रं यश्चैतच्छृणुयात् सदा । न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ।। २३.
धरण्युवाच । कथं ते गात्रसंस्पर्शान्मूर्त्तिमन्तो महाबलाः । नागा बभूवुर्देवेश कारणं ते महीधर ।। २४.
श्रीवराह उवाच । श्रुत्वा गणपतेर्जन्म प्रजापालो नराधिपः । उवाच श्लक्ष्णया वाचा तं मुनिं संशितव्रतम् ।। २४.
प्रजापाल उवाच । भगवंस्तार्क्षविषयाः कथं मूर्त्तिमुपागताः । नागा बभूवुः कुटिला एतदाख्यातुमर्हसि ।। २४.
महातपा उवाच । सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् । प्रथमं मनसा ध्यातस्तस्य पुत्रस्तु कश्यपः ।। २४.
तस्य दाक्षायणी भार्या कद्रूर्नाम शुचिस्मिता । मारीचो जनयामास तस्यां पुत्रान् महाबलान् ।। २४.
अनन्तं वासुकिं चैव कम्बलं च महाबलम् । कर्कोटकं च राजेन्द्र पद्मं चान्यं सरीसृपम् ।। २४.
महापद्मं तथा शङ्खं कुलिकं चापराजितम् । एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ।। २४.
एतेषां तु प्रसूत्या तु इदमापूरितं जगत् । कुटिला हीनकर्माणस्तीक्ष्णास्योत्थविषोल्बणाः । दृष्ट्वा संदश्य मनुजान् कुर्युर्भस्म क्षणाद् ध्रुवम् ।। २४.
शब्दगामी यथा स्पर्शं मनुष्याणां नराधिप । अहन्यहनि जायेत क्षयः परमदारुणः ।। २४.
आत्मनस्तु क्षयं दृष्ट्वा प्रजाः सर्वाः समन्ततः । जग्मुः शरण्यं शरणं परं तु परमेश्वरम् ।। २४.
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते । ऊचुः कमलजं विष्णुं पुराणं ब्रह्मसंज्ञितम् ।। २४.
देवा ऊचुः । देवदेवेश लोकानां प्रसूति परमेश्वर । त्राहि नस्तीक्ष्णदंष्ट्राणां भुजंगानां महात्मनाम् ।। २४.