दुर्भगा या तु नारी स्यात् पुरुषश्चातिदुर्भगः । एतच्छ्रुत्वा तृतीयायां लवणं तु विवर्जयेत् ।। २२.
सर्वकामानवाप्नोति सौभाग्यं द्रव्यसम्पदम् । आरोग्यं च सदा लोके कान्तिं पुष्टिं च विन्दति ।। २२.
प्रजापाल उवाच । कथं गणपतेर्जन्म मूर्तिमन्तं च सत्तम । एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ।। २३.
महातपा उवाच । पूर्वं देवगणाः सर्वे ऋषयश्च तपोधनाः । कार्यारम्भं तथा चक्रुः सिध्यन्ते च न संशयः ।। २३.
सन्मार्गवर्तिषु यथा सिद्ध्यन्ते विघ्नतः क्रियाः । असत्कारिषु सर्वेषु तद्वदेवमविघ्नतः ।। २३.
ततो देवाः सपितरश्चिन्तयामासुरोजसा । असत्कार्येषु विघ्नार्थं सर्व एवाभ्यमन्त्रयन् ।। २३.
ततस्तेषां तदा मन्त्रं कुर्वतस्त्रिदिवौकसाम् । बभूव बुद्धिर्गमने रुद्रं प्रति महामतिम् ।। २३.
ते तत्र रुद्रमागम्य कैलासनिलयं गुरुम् । ऊचुः सविनयं सर्वे प्रणिपातपुरःसरम् ।। २३.
देवा ऊचुः । देवदेव महादेव शूलपाणे त्रिलोचन । विघ्नार्थमविशिष्टानामुत्पादयितुमर्हसि ।। २३.
एवमुक्तरस्तदा देवैर्भवः परमया मुदा । उमां निरीक्षयामास चक्षुषाऽनिमिषेण ह ।। २३.
देवानां सन्निधौ तस्य पश्यतोमां महात्मनः । चिन्ताऽभूद् व्योम्नि मूर्तिभ्यो दृश्यते केन हेतुना ।। २३.
पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च । तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते । आकाशं च कथं नेति मत्वा देवो जहास च ।। २३.
ज्ञानशक्तिमुमां दृष्ट्वा यद् दृष्टं व्योम्नि शंभुना । यच्चोक्तं ब्रह्मणा पूर्वं शरीरं तु शरीरिणाम् ।। २३.
यच्चापि हसितं तेन देवेन परमेष्ठिना । एतत्कार्यचतुष्केण पृथिव्यादिचतुर्ष्वपि ।। २३.
मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः । प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशः । परमेष्ठिगुणैर्युक्तः साक्षाद् रुद्र इवापरः ।। २३.
उत्पन्नमात्रो देवानां योषितः सप्रमोहयन् । कान्त्या दीप्त्या तथा मूर्त्या रूपेण च महात्मवान् ।। २३.
तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः । उमाऽनिमेषनेत्राभ्यां तमपश्यत भामिनी ।। २३.
तं दृष्ट्वा कुपितो देवः स्त्रीभावं चञ्चलं तथा । मत्वा कुमाररूपं तु शोभनं मोहनं दृशाम् । ततः शशाप तं देवः स्त्रीशङ्कां परमेश्वरः ।। २३.
कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा । भविष्यसि तथा सर्पैरुपवीतगतिर्ध्रुवम् । एवं शशाप तं देवस्तीव्रकोपसमन्वितः ।। २३.
अर्द्धकोट्या च रोमाणामात्मनोऽङ्गे त्रिलोचनः । कूपकास्वेदसलिलपूर्णशूलधरस्तथा । धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ।। २३.
यथा यथाऽसौ स शरीरमाद्यं धुनोति देवस्त्रिशिखास्त्रपाणिः । तथा तथा चाङ्गरुहाश्चकासु- र्जलं क्षितौ संन्यपतंस्तथान्याः ।। २३.
विनायकानेकविधा गजास्या - स्तमालनीलाञ्जनसंनिकाशाः । उत्तस्थुरुच्चैर्विविधास्त्रहस्ता - स्ततस्तु देवा मनसाकुलेन ।। २३.
किमेतदित्यद्भुतकर्मकारी ह्येकः करोत्यप्रतिमं महच्च । कार्यं सुराणां कृतमेतदिष्टं भवेदथैतं परितं कुतस्तत् ।। २३.
दिवौकसां चिन्तयतां तथा तु विनायकैः क्ष्मा क्षुभिता बभूव । चतुर्मुखश्चाप्रतिमो विमान - मारुह्य खे वाक्यमिदं जगाद ।। २३.
धन्याः स्थ देवाः सुरनायकेन त्रिलोचनेनाद्भुतरूपिणा च । अनुगृहीताः परमेश्वरेण सुरद्विषां विघ्नकृतां नतौ च ।। २३.
इत्येवमुक्त्वा प्रपितामहस्ता - नुवाच देवस्त्रिशिखास्त्रपाणिम् । यस्ते विभो वक्त्रसमुद्भवः प्रभु- र्विनायकानां भवतु त्विमेऽनुगाः ।। २३.
भवांस्तथाऽस्यात्मवरेण चाम्बरे त्वया चतुर्ष्वस्तु शरीरचारी । आकाशमेतद् बहुधा व्यवस्थितं त्वया वरेण्यः कृत एव नान्यः ।। २३.
प्रभुर्भव त्वं प्रतिमास्त्रपाणिना इमानि चास्त्राणि वरांश्च देहि । इत्येवमुक्त्वाऽधिगते पितामहे त्रिलोचनश्चात्मभवं जगाद ।। २३.
विनायको विघ्नकरो गजास्यो गणेशनामा च भवस्य पुत्रः । एते च सर्वे तव यान्तु भृत्या विनायकाः क्रूरदृशः प्रचण्डाः । उच्छुष्मदानादिविवृद्धदेहाः कार्येषु सिद्धिं प्रतिपादयन्तः ।। २३.
भवांश्च देवेषु तथा मखेषु कार्येषु चान्येषु महानुभावात् । अग्रेषु पूजां लभतेऽन्यथा च विनाशयिष्यस्यथ कार्यसिद्धिम् ।। २३.