न भवेत् परिहासोऽयमुक्ता देवी परापरा । लज्जमाना तदा वाक्यं वदति स्मितपूर्वकम् ।। २२.
देवदेव त्रिलोकेश त्वदर्थोऽयं समुद्यमः । प्राग्जन्माराधितो भर्त्ता भवान् देवो महेश्वरः ।। २२.
इदानीं मे भवान् देवः पतिर्नान्यो भविष्यति । किन्तु स्वामी पिता मह्यं शैलेन्द्रो मे व्रजामि तम् । अनुज्ञाप्य विधानेन ततः पाणिं गृहीष्यसि ।। २२.
एवमुक्त्वा तदा देवी पितरं प्रति भामिनी । कृताञ्जलिपुटा भूत्वा हिमवन्तमुवाच ह ।। २२.
अतोऽन्यजन्मभर्त्ता मे रुद्रो दक्षमखान्तकः । इदानीं तपसा सैव ध्यातोऽभूद् गतिभावनः ।। २२.
स च विश्वपतिर्भूत्वा ब्राह्मणो मे तपोवनम् । आगत्य भोजनार्थाय याचयामास शंकरः । मया स्नातुं व्रजस्वेति चोदितो जाह्नवीं गतः ।। २२.
तत्रासौ वृद्धकायेन द्विजरूपेण शंकरः । मकरेण धृतस्तूर्णं अब्रहह्मण्यमुवाच ह ।। २२.
ब्रह्महत्याभयात् तात मया पाणौ धृतस्ततः । धृतमात्रः स्वकं देहं दर्शयामास शंकरः ।। २२.
ततो मामब्रवीद् देवः पाणिग्रहणमागताम् । भवती देवि मा किंचिद् विचारय तपोधने ।। २२.
एवमुक्ता त्वहं तेन शंकरेण महात्मना । तदनुज्ञाप्य देवेशं भवन्तं प्रष्टुमागता । इदानीं यत् क्षमं कार्यं तच्छीघ्रं संविधीयताम् ।। २२.
एवं श्रुत्वा तदा वाक्यं शैलराजो मुदा युतः । उवाच दुहितां धन्यां तस्मिन् काले वराननाम् ।। २२.
पुत्रि धन्योऽस्म्यहं लोके यस्य रुद्रः स्वयं हरः । जामाता भविता देवि त्वयाऽपत्यवतामहम् । स्थापितो मूर्ध्नि देवानामपि पुत्रि त्वया ह्यहम् ।। २२.
स्थीयतां क्षणमेकं तु यावदागमनं मम । एवमुक्त्वा गतो राजा शैलानां ब्रह्मणोऽन्तिकम् ।। २२.
तत्र दृष्ट्वा महात्मानं सर्वदेवपितामहम् । उवाच प्रणतो भूत्वा ब्रह्माणं शैलराट् ततः ।। २२.
देवोमा दुहिता मह्यं तां रुद्राय ददाम्यहम् । त्वया देव अनुज्ञातस्तत्करोमि प्रशाधि माम् ।। २२.
ततो ब्रह्मा प्रीतमना याहि रुद्राय तां शुभाम् । प्रयच्छोवाच देवानां तदा लोकपितामहः ।। २२.
एवमुक्तः शैलराजः स्ववेश्मागम्य सत्वरम् । देवानृषीन् सिद्धसंघान् चामन्त्रयत सत्वरम् ।। २२.
तुम्बुरुं नारदं चैव हाहाहूहूं तथैव च । स गत्वा किन्नरांश्चैव असुरान् राक्षसानपि ।। २२.
पर्वताः सरितः शैला वृक्षा ओषधयस्तथा । आगता मूर्त्तिमन्तो वै पर्वताः सङ्गमोपलाः । हिमवद्दुहितुर्द्रष्टुं विवाहं शंकरेण ह ।। २२.
तत्र वेदिः क्षितिश्चासीत् कलशाः सप्त सागराः । सूर्यो दीपस्तथा सोमः सरितो ववहुर्जलम् ।। २२.
एवं विवाहसामग्रीं कृत्वा शैलवराधिपः । प्रेषयामास रुद्राय समीपं मन्दरं गिरिम् ।। २२.
स तदा मन्दरोक्तस्तु शंकरो द्रुतमाययौ । विधिना सोमया पाणिं जग्राह परमेश्वरः ।। २२.
तत्रोत्सवे पर्वतनारदौ द्वौ जगुश्च सिद्धा ननृतुर्वनस्पतीः । पुष्पाण्यनेकानि विचिक्षिपुः शुभाः ननर्तुरुच्चैः सुरयोषितो भृशम् ।। २२.
तस्मिन् विवाहे सलिलप्रवाहे चतुर्मुखो लोकपरः स्वसंस्थः । उवाच कन्यां भव पुत्रि लोके नारी प्रभर्त्ता तव चान्यपुंसाम् । इत्येवमुक्त्वा स उमां सरुद्रां पितामहः स्वं पुरमाजगाम ।। २२.
जामातरं पर्वतराट् सुपूज्य विसर्जयामास विभुं स सोमम् । देवांश्च दैत्यान् विविधानृषींश्च संपूज्य सर्वान् विविधैस्तु वस्तुभिः । विभूषणैर्वस्त्रवरान्नदानै - र्विसर्जयामास तदाद्रिमुख्यान् ।।२२.
स वीतशोको विरजो विशुद्धः शुभाननां देववराय दत्त्वा । उमां महात्मा हिमवानद्रिराजः पैतामहे लोक इवाध्वरे भात् ।। २२.
इतीरितेयं तव राजसत्तम प्रसूतिरेषा न विदुर्यां सुरासुराः । स्वयंभुदक्षादिराजः त्रिजन्मभि- र्गौरीविवाहोऽपि मया सुकीर्तितः ।। २२.
श्रीवराह उवाच । एवं सा गौरिनाम्ना तु कारणान्मूर्त्तिमागता । संबभूव यथा प्रोक्तं प्रजापालाय पृच्छते । ऋषिणा महता पूर्वं तपसा भावितात्मना ।। २२.
गौर्या उत्पत्तिरेषा वै कथिता परमर्षिणा । विवाहश्च यथा वृत्तस्तत्सर्वं कथितं तव ।। २२.
एतत्सर्वं तु गौर्या वै संपन्नं तु तृतीयया । तस्यां तिथौ तृतीयायां लवणं वर्जयेन्नरः । यश्चोपोष्यति नारी वा सा सौभाग्यं तु विन्दति ।। २२.