भवपत्नी च दुहिता एवं संचिन्त्य सुन्दरी । जगाम तपसे शैलं हिमवन्तं महागिरिम् ।। २२.
तत्र कालेन महता क्षपयन्ती कलेवरम् । स्वशरीराग्निना दग्धा ततः शैलसुताऽभवत् ।। २२.
उमा नामेति महती कृष्णा चेत्यभिधानतः । लब्ध्वा तु शोभनां मूर्तिं हिमवन्तगृहे शुभा ।। २२.
पुनस्तपश्चकारोग्रं देवं स्मृत्वा त्रिलोचनम् । असावेव पतिर्मह्यमित्युक्त्वा तपसि स्थिता ।। २२.
कुर्वन्त्या तत् तपश्चोग्रं हिमवन्ते महागिरौ । कालेन महता देवस्तपसाराधितस्तया ।। २२.
आजगामाश्रमं तस्या विप्रो भूत्वा महेश्वरः । वृद्धः शिथिलसर्वाङ्गः स्खलंश्चैव पदे पदे ।। २२.
कृच्छ्रात् तस्याः समीपं तु आगत्य द्विजसत्तमः । बुभुक्षितोऽस्मि मे देहि भद्रे भोज्यं द्विजस्य तु ।। २२.
एवमुक्ता तदा कन्या उमा शैलसुता शुभा । उवाच ब्राह्मणं भोज्यं दद्मि विप्र फलादिकम् । कुरु स्नानं द्रुतं विप्र भुञ्जस्वान्नं यदृच्छया ।। २२.
एवमुक्तस्तदा विप्रस्तस्य पार्श्वे महानदीम् । गङ्गां जगाम स्नानार्थी स्नानं कर्त्तुमवातरत् ।। २२.
स्नानं तु कुर्वता तेन रुद्रेण द्विजरूपिणा । भूत्वा मायामयं भीमं मकरं भयदर्शनम् । ग्राहितस्तु तदा विप्रस्तेन दुष्टेन मद्गुना ।। २२.
दृष्ट्वा धृतमथात्मानं मकरेण बलीयसा । वृद्धमात्मानमन्यं तां दर्शयन् वाक्यमब्रवीत् ।। २२.
अब्रह्मण्यं गतं कन्ये धावस्वानय मां रुषः । यावन्नायाति विकृतिं तावन्मां त्रातुमर्हसि ।। २२.
एवमुक्ता तदा कन्या चिन्तयामास पार्वती । पितृभावेन शैलेन्द्रं भर्तृभावेन शंकरम् । स्पृशामि तपसा पूता कथं विप्रं स्पृशाम्यहम् ।। २२.
यद्येनं नापकर्षामि मकरेण जले धृतम् । तदानीं ब्रह्मवध्या मे भवतीति न संशयः ।। २२.
अन्यव्यतिक्रमे धर्ममपनेतुं च शक्यते । ब्रह्मवध्या पुनर्नैवमेवमुक्तवा गता त्वरम् ।। २२.
सा गत्वा त्वरितं भीरुर्गृहीत्वा पाणिना द्विजम् । चकर्षान्तर्जलात् तावत् स्वयं भूतपतिर्हरः ।। २२.
यमाराध्य तपश्चर्त्तुमारब्धं शैलपुत्राया । स एव भगवान् रुद्रस्तस्याः पाणौ विलम्बत ।। २२.
तं दृष्ट्वा लज्जिता देवी पूर्वत्यागमनुस्मरन् । न किंचिदुत्तरं सुभ्रूर्वदति स्म सुलज्जिता ।। २२.
तूष्णींभूतां तु तां दृष्ट्वा गौरीं रुद्रो हसन्निव । पाणौ गृहीत्वा मां भद्रे कथं त्यक्तुमिहार्हसि ।। २२.
मत्पाणिग्रहणं भद्रे वृथा यदि करिष्यसि । तदानीं ब्रह्मणः पुत्र्यामाहारार्थं ब्रवीम्यहम् ।। २२.
न भवेत् परिहासोऽयमुक्ता देवी परापरा । लज्जमाना तदा वाक्यं वदति स्मितपूर्वकम् ।। २२.
देवदेव त्रिलोकेश त्वदर्थोऽयं समुद्यमः । प्राग्जन्माराधितो भर्त्ता भवान् देवो महेश्वरः ।। २२.
इदानीं मे भवान् देवः पतिर्नान्यो भविष्यति । किन्तु स्वामी पिता मह्यं शैलेन्द्रो मे व्रजामि तम् । अनुज्ञाप्य विधानेन ततः पाणिं गृहीष्यसि ।। २२.
एवमुक्त्वा तदा देवी पितरं प्रति भामिनी । कृताञ्जलिपुटा भूत्वा हिमवन्तमुवाच ह ।। २२.
अतोऽन्यजन्मभर्त्ता मे रुद्रो दक्षमखान्तकः । इदानीं तपसा सैव ध्यातोऽभूद् गतिभावनः ।। २२.
स च विश्वपतिर्भूत्वा ब्राह्मणो मे तपोवनम् । आगत्य भोजनार्थाय याचयामास शंकरः । मया स्नातुं व्रजस्वेति चोदितो जाह्नवीं गतः ।। २२.
तत्रासौ वृद्धकायेन द्विजरूपेण शंकरः । मकरेण धृतस्तूर्णं अब्रहह्मण्यमुवाच ह ।। २२.
ब्रह्महत्याभयात् तात मया पाणौ धृतस्ततः । धृतमात्रः स्वकं देहं दर्शयामास शंकरः ।। २२.
ततो मामब्रवीद् देवः पाणिग्रहणमागताम् । भवती देवि मा किंचिद् विचारय तपोधने ।। २२.
एवमुक्ता त्वहं तेन शंकरेण महात्मना । तदनुज्ञाप्य देवेशं भवन्तं प्रष्टुमागता । इदानीं यत् क्षमं कार्यं तच्छीघ्रं संविधीयताम् ।। २२.