सूकरक्षेत्रमहिमा ततो जम्बूकगृध्रयोः
बदरीषण्डमाहात्म्यं गुह्यधर्मप्रकीर्तनम्
सोमेश्वरस्य महिमा मुक्तिक्षेत्रस्य चापि हि।। त्रिवेण्याश्चैव माहात्म्यं माहात्म्यं गण्डकीभवम्
चक्रतीर्थस्य महिमा हरिक्षेत्रसमुद्भवः
गोनिष्क्रमस्य महिमा द्वारवत्यास्ततः परम्
मथुरातीर्थमाहात्म्यं प्रादुर्भावस्तथैव च
देवारण्यस्य माहात्म्यं चक्रतीर्थस्य चोत्तमम्
तथा आख्यायिकायुक्तं विश्रान्तेश्च ततः परम्
यमुनोद्भेदमहिमा कालिञ्जरसमुद्भवाः 218.
मधुकप्रतिमायाश्च स्थापनं संप्रकीर्तितम्
ताम्रार्चास्थापनं चापि कांस्यार्चास्थापनं तथा
श्राद्धोत्पत्ति स्ततः प्रोक्तं पिण्डं संकल्प एव च
मधुपर्क्कफलं दाने संसारचक्रवर्णनम्
कृतान्तदूतकथनं यातनारूपमेव च
तथा कर्मविपाकं च यादृशं कर्म तादृशम्
शुभाशुभस्य कथनं शुभकर्मफलोदयम्
पापनाशकथां दिव्यां गोकर्णेशसमुद्भवम्
शृंगेश्वरस्य महिमा चैवं वृत्तान्तसंग्रहः
इत्यनुक्रमणिका नाम अष्टादशाधिकद्विशततमोऽध्यायः