वराहस्य पुराणस्य वृत्तान्तान्प्रब्रवीम्यहम्
आदिसृष्टिस्ततः प्रोक्ता चरितं दुर्जनस्य च
आदिवृत्तान्तकथने सरमाख्यानमेव च
अश्विनोरपि चोत्पत्ति गौर्युत्पत्तिस्तथैव च
स्कन्दोत्पत्तिश्च भानोश्च उत्पत्तिः समुदाहृता
धनदस्य तथोत्पत्तिः परापरविनिर्णयः
सोमोत्पत्तिरहस्यं च क्षितेश्चापि समासतः
ततः सत्यतपोपाख्या मत्स्यद्वादशिका तथा
नृसिंहद्वादशी चापि वामनद्वादशी तथा 218.
कृष्णद्वादशिका चापि बुद्धद्वादशिका तथा
ततो व्रतं धरण्याश्च गीतागस्त्यस्य चोत्तमा
शुभव्रतं धन्यव्रतं कान्तिव्रतमतः स्मृतम्
शान्तिव्रतं कामव्रतमारोग्यव्रतमेव च
पुराणस्तवनं चैव नारायणेश्वरेण च
ततो भुवनकोशस्य वर्णनं समुदाहृतम्
भारतादिसमुद्देशः सृष्टिसम्भाग एव च
शक्तिमाहात्म्यकथनं महिषासुरघातनम्
श्वेतोपाख्यानमत्रोक्तं तिलधेनुविधिस्ततः
ततश्च शर्क्कराधेनोर्मधुधेनोस्ततः परम् 218.
धान्यधेनुश्च भगवच्छास्त्रलक्षणमेव च
ततो भागवतानां च लक्षणं परिकीर्त्तितम्
नानामन्त्रास्ततः प्रोक्ता देवोपकरणे विधिः
वियोनिगर्भमोक्षश्च कोकामुखप्रशंसनम्
रूपकारणमत्रोक्तं मायाचक्रं ततः परम्
कंकृताञ्जनदर्पाणां मन्त्राः प्रोक्तास्ततः परम्
दन्तकाष्ठाद्यकरणे प्रायश्चित्तं ततः परम्
नीलवस्त्रपरिधाने क्रोधयुक्तस्य चार्चने
कृष्णवस्त्रपरिधाने धौतवस्त्रस्य धारणे
दीपोच्छिष्टस्य तैलस्य करलेपेन पूजने 218.
पिण्याकभक्षणे चैव उपानद्गूढपादके