श्रुत्वाऽस्यैव दशाध्यायं शुचिर्भूत्वा समाहितः
यः पुनः सततं शृण्वन्नैरन्तर्येण बुद्धिमान्
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम्
तत्प्राप्नोति न सन्देहो वराहवचनं यथा
अपुत्रस्य भवेत्पुत्रः सपौत्रस्य सुपौत्रकः 217.
तस्य नारायणो देवः सन्तुष्टः स्याद्धि सर्वदा
श्रुत्वा तु पूजयेच्छास्त्रं यथा विष्णुं सनातनम्
यथाशक्ति नृपो ग्रामैः पूजयेच्च वसुन्धरे
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्
अथ पुराणपठनादिविषयानुक्रमणिकाध्यायः वीरेश्वरेण सह माधवभद्रनाम्ना काश्यां वराहकथितं लिखितं पुराणम्
वराहस्य पुराणस्य वृत्तान्तान्प्रब्रवीम्यहम्
आदिसृष्टिस्ततः प्रोक्ता चरितं दुर्जनस्य च
आदिवृत्तान्तकथने सरमाख्यानमेव च
अश्विनोरपि चोत्पत्ति गौर्युत्पत्तिस्तथैव च
स्कन्दोत्पत्तिश्च भानोश्च उत्पत्तिः समुदाहृता
धनदस्य तथोत्पत्तिः परापरविनिर्णयः
सोमोत्पत्तिरहस्यं च क्षितेश्चापि समासतः
ततः सत्यतपोपाख्या मत्स्यद्वादशिका तथा
नृसिंहद्वादशी चापि वामनद्वादशी तथा 218.
कृष्णद्वादशिका चापि बुद्धद्वादशिका तथा
ततो व्रतं धरण्याश्च गीतागस्त्यस्य चोत्तमा
शुभव्रतं धन्यव्रतं कान्तिव्रतमतः स्मृतम्
शान्तिव्रतं कामव्रतमारोग्यव्रतमेव च
पुराणस्तवनं चैव नारायणेश्वरेण च
ततो भुवनकोशस्य वर्णनं समुदाहृतम्
भारतादिसमुद्देशः सृष्टिसम्भाग एव च
शक्तिमाहात्म्यकथनं महिषासुरघातनम्
श्वेतोपाख्यानमत्रोक्तं तिलधेनुविधिस्ततः
ततश्च शर्क्कराधेनोर्मधुधेनोस्ततः परम् 218.
धान्यधेनुश्च भगवच्छास्त्रलक्षणमेव च