पुनश्च रावणो रक्षः क्षपितं क्षात्रतेजसा । न च जानाम्यहं देव तव किञ्चिद्विचेष्टितम् ।। १.
उद्धृत्य मां कथं सृष्टिं सृजसे किं च सा त्वया। सकृद् ध्रियेत कृत्वा च पाल्यते चापि केन च ।। १.
केन वा सुलभो देव जायसे सततं विभो । कथं च सृष्टेरादिः स्यादवसानं कथं भवेत् ।। १.
कथं युगस्य गणना संख्याऽस्यानुचतुर्युगम् । के वा विशेषास्तेष्वस्मिन् का वाऽवस्था महेश्वर ।। १.
यज्वानः के च राजानः के च सिद्धिं परां गताः । एतत्सर्वं समासेन कथयस्व प्रसीद मे ।। १.
इत्युक्तः क्रोडरूपेण जहास परमेश्वरः । हसतस्तस्य कुक्षौ तु जगद्धात्री ददर्श ह १.
सचन्द्रसूर्यग्रहसप्तलोका- नन्तः स्थितांस्तावदुपात्तधर्मान् । इतीदृशं पश्यति सा समस्तं यावत्क्षितिर्वेपितसर्वगात्रा ।। १.
उन्मीलितास्यस्तु यदा महात्मा दृष्टो धरण्याऽमलसर्वगात्र्या । तावत्स्वरूपेण चतुर्भुजेन महोदधौ सुप्तमथोऽन्वपश्यत् ।। १.
शेषपर्यङ्कशयने सुप्तं देवं जनार्दनम् । दृष्ट्वा तन्नाभिपङ्कस्थमन्तःस्थं च चतुर्मुखम्। कृताञ्जलिपुटा देवी स्तुतिं धात्री जगाद ह ।। १.
धरण्युवाच। नमः कमलपत्राक्ष नमस्ते पीतवाससे। नमः सुरारिविध्वंसकारिणे परमात्मने ।। १.
शेषपर्यङ्कशपने धृतवक्षस्थलश्रिये । नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ।। १.
नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जिते। नमो नाभ्युत्थितमहत्कमलासनजन्मने ।। १.
नमो विद्रुमरक्तास्यपाणिपल्लवशोभिने । शरणं त्वां प्रसन्नाऽस्मि त्राहि नारीमनागसम् ।। १.
पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन। दृष्ट्वा भीताऽस्मि भूयोऽपि जगत् त्वद्देहगोचरम्। इदानीं कुरु मे नाथ दयां त्राहि महाभयात्।। १.
केशवः पातु मे पादौ जङ्घे नारायणो मम । माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ।। १.
नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः । ऊरुं त्रिविक्रमः पातु हृदयं पातु वामनः ।। १.
श्रीधरः पातु मे कण्ठं हृषीकेशो मुखं मम । पद्मनाभस्तु नयने शिरो दामोदरो मम ।। १.
एवं न्यस्य हरेर्न्यासमामानि जगती तदा । नमस्ते भगवन् विष्णो इत्युक्त्वा विरराम ह ।। १.
सूत उवाच । ततस्तुष्टो हरिर्भक्त्या धरण्यात्मशरीरगाम् । मायां प्रकाश्य तेनैव स्थितो वाराहमूर्त्तिना ।। २.
जगाद किं ते सुश्रोणि प्रश्नमेनं सुदुर्लभम् । कथयामि पुराणस्य विषयं सर्वशास्त्रतः ।। २.
पुराणानां हि सर्वेषामयं साधारणः स्मृतः । श्लोकं धरणि निश्चित्य निःशेषं त्वं पुनः श्रृणु ।। २.
श्रीवराह उवाच । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। २.
आदिसर्गमहं तावत् कथयामि वरानने । यस्मादारभ्य देवानां राज्ञां चरितमेव च । ज्ञायते चतुरंशश्च परमात्मा सनातनः ।। २.
आदावहं व्योम महत् ततोऽणुं- रेकैव मत्तः प्रबभूव बुद्धिः । त्रिधा तु सा सत्त्वरजस्तमोभिः पृथक्पृथक्तत्त्वरूपैरुपेता ।। २.
तस्मिंस्त्रिकेऽहं तमसो महान् स सदोच्यते सर्वविदां प्रधानः । उतस्मादपि क्षेत्रविदूर्जितोऽभूद् बभूव वुद्धिस्तु ततो बभूव ।। २.
तस्मात्तु तेभ्यो श्रवणादिहेतवस् ततोऽक्षमाला जगतो व्यवस्थिता । भूतैर्गतैरेव च पिण्डमूर्ति- र्मया भद्रे विहिता त्वात्मनैव ।। २.
शून्यं त्वासीत् तत्र शब्दस्तु खं च तस्माद् वायुस्तत एवानु तेजः । तस्मादापस्तत एवानु देवि मया सृष्टा भवती भूतधात्री ।। २.
योगे पृथिव्या जलवत् ततोऽपि सबुद्बुदं कललं त्वण्डमेव । तस्मिन् प्रवृत्ते द्विगतेऽहमासी- दापोमयश्चात्मनात्मानमादौ ।। २.
सृष्ट्वा नारास्ता अथो तत्र चाहं येन स्यान्मे नाम नारायणेति । कल्पे कल्पे तत्र संयामि भूयः सुप्तस्य मे नाभिजः स्याद् यथाद्यः ।। २.
एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्तस्थौ स मया प्रोक्तः प्रजाः सृज महामते ।। २.