तथा कपिञ्जलनागशैलयोरन्तरे द्विशतयोजनमायामविस्तीर्णा शतयोजनस्थली नानावनविभूषिता द्र्ाक्षाखर्जूरखण्डैरुपेता अनेकवृक्षवल्लीभिरनेकैश्च सरोभिरुपेता सा स्थली । तथा च पुष्करमहामेघयोरन्तरे षष्टियोजनविस्तीर्णा शतायामा पाणितलप्रख्या महती स्थली वृक्षवीरुधविवर्जिता ।तस्याश्च पार्श्वे चत्वारि महावनानि सरांसि चानेकयोजनानाम् ।दश पञ्च सप्त तथाष्टौ त्रिंशद् विंशति योजनानां स्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः पर्वतक्षयाः
Likewise, between the mountains Kapiñjala and Nāga, there is a land two hundred yojanas long and wide, and a hundred yojanas in area, adorned with various forests, with clusters of grapes and dates, many trees and creepers, and many lakes. Likewise, between Puṣkara and Mahāmegha, there is a great land, sixty yojanas wide and a hundred yojanas long, flat as a palm, devoid of trees and shrubs. On its side are four great forests and lakes, each many yojanas in size. There are lands and valleys measuring ten, five, seven, eight, thirty, and twenty yojanas. Some of these are extremely terrifying due to the destruction of mountains.
रुद्र उवाच । अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते । तत्र योऽसौ शान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् । तत्र देवराजस्य पारिजातकवृक्षवनम् । तस्य पूर्वपार्श्वे कुञ्जरो नाम गिरिः । तस्योपरि दानवानामष्टौ पुराणि च । १ तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि । ते च नाम्ना नीलकाः कामरूपिणः । महानीलेऽपि शैलेन्द्रपुराणि । पञ्चदशसहस्त्राणि किन्नराणां ख्यातानि । तत्र देवदत्तचन्द्रादयो राजानः । पञ्चदशकिन्नराणां गर्विताः । तानि सौवर्णानि बिलप्रवेशनानि च पुराणि । चन्द्रोदये च पर्वतवरे नागानामधिवासः । ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः । वेणुमत्यपि विद्याधरपुरत्रयं । त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतम् । उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् । २ एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः । कुञ्जरे तु पर्वतवरे नित्यं पशुपतिः स्थितः । वृषभाङ्को महादेवः शंकरो योगिनां वरः अनेकगणभूतकोटिसहस्त्रवारो भगवान् अनादिपुरुषो व्यवस्थितः । वसुधारे च पुष्पवतां वसूनां च समावासः । ३ वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च संख्यया । पुराणि वसुसप्तर्षीणां चेति । एकश्रृङ्गे च पर्वतोत्तमे प्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः। गजपर्वते च महाभूतपरिवृता स्वयमेव भगवती तिष्ठति । ४ वसुधारे च पर्वतवरे मुनिसिद्धविद्याधराणामायतनम् । चतुराशीत्यपरपुर्यो महाप्राकारतोरणाः । तत्र चानेकपर्वता नाम गन्धर्वा युद्धशालिनो वसन्ति । तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः । सुरराक्षसाः पञ्चकूटेदानवाः शतश्रृङ्गेयक्षाणां पुरशतम् । ५ ताम्राभे तक्षकस्यपुरशतम् । विशखपर्वते गुहस्यायतनम् । श्वेतोदये गिरिवरे महागन्धर्वभवनम् । हरिकूटे हरिर्देवः । कुमुदे किन्नरावासः । अञ्जने महोरगाः । सहस्त्रशिखरे च दैत्यानामुग्रकर्मिणामावासः । पुराणां सहस्त्रमेकं हेममालिनाम् मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु। एवं मेरुपर्वतेषु देवानामधिवासः । मर्यादापर्वते देवकूटे पुरविन्यासः कीर्त्यते । तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् । तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः । आग्नेयाश्च नाम्ना गन्धर्वातिबलिनः । तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरम् सैंहिकेयानाम् । तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते । पुरं च कालकेयानां तत्रैव । तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरम् कामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः । अथातः कैलासवर्णको भवति। कैलासस्य तटे योजनशतमायामवस्तृतम् भुवनमालाभिव्याप्तम् । तस्याश्च मध्ये सभा । तत्र च तत्पुष्करं नाम विमानं तिष्ठति । धनदस्य च तद्विमानमधिवासश्च । तत्र पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति । तत्र चन्द्रादीनां लोकपालानामावासः । तत्र च मन्दाकिनी नाम नदी । तथा कनकमन्दा मन्दा चेति नामभिः सरितः । तत्रान्या अपि नद्यः सन्ति । पूर्वपार्श्वे च शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च सकुबाहुहरिकेशचित्रसेनादयो राजानः । तस्यैव च पश्चिमकूटे अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् । तेषु च महामालिसुनेत्र चक्रादयो नायकाः । तस्यैव दक्षिणे पार्श्वे कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् । तेषु च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् । तत्र च रुद्रस्योमया सार्द्धं विवाहस्संवृत्तः । तपश्च कृतवती गौरी । किरातरूपिणा च रुद्रेण स्थितम् । तत्रैव तत्र स्थितेन सोमेन शंकरेण जम्बूद्वीपावलोकनं कृतम् । तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् । यत्र भगवता महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् । तत्र च कार्तिकेयस्य शरद्वनम् । पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम । तथा च मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि सहस्त्राण्याश्रमाणां हि भवति । तथा च पश्चिमस्याचलेन्द्रस्य निषधस्य भागं श्रृणुत । तस्य च मध्यमकूटे विष्ण्वायतनं महादेवस्य । तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं लम्बाख्यातं राक्षसानाम् । तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् । प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि । तस्य गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति । तस्यां च पर्वणि सोमः स्वयमेवावतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम । तत्र ब्रह्मा तिष्ठति क्वचित् । तथा च वह्न्यायतनम् । मूर्त्तिमान् वह्निरुपास्यते देवैः । ६ उत्तरे च श्रृङ्गाख्ये पर्वतवरे देवतानामायतनानि । पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः । शंकरस्य पश्चिमे । तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस् तत्र नन्दो नाम नागराजा वसति शतशीर्षप्रचण्ड इति।।७ इत्येतेऽष्टौ देवपर्वता विज्ञेयाः । तेनानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः । इयं च पृथ्वी लक्षकोटिशतानेकसंख्यातानां पूर्णा तेषु च सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं सिद्धलोकेति कीर्त्त्यते । इयं पृथ्वी पद्माकारेण व्यवस्थिता । एष च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते
Rudra said: Now, the abodes of the gods on the mountains are described. There, on the mountain called Shanta, is the playground of Mahendra. On that mountain is the grove of Parijata trees belonging to the king of the gods. On its eastern side is a mountain named Kunjara. Upon it are eight ancient cities of the Danavas. Likewise, on the excellent mountain Vajraka are many ancient cities of the Rakshasas, who are called Nilakas and are shape-shifters. On the great mountain Mahanila are the ancient cities of the Vidyadharas. There are fifteen thousand renowned cities of the Kinnaras. There, kings such as Devadatta and Chandra are the proud rulers of the Kinnaras. Those cities are golden, with entrances leading underground. On the excellent mountain Chandradaya is the abode of the Nagas. Their underground entrances are situated in caves, and the Danava lords, devoted to their own realms, are established there. On Venumati are three cities of the Vidyadharas, each extending a hundred yojanas in breadth and length. Kings of the Vidyadharas such as Ulukaroma and Mahavetra reside there. On each mountain king, Garuda himself is present. On the excellent mountain Kunjara, Pashupati always resides. The great god Mahadeva, bearing the bull, Shankara, the best of yogis, the lord with countless hosts, the primeval person, is established there. On Vasudhara is the abode of the Vasus and the flower-bearing ones. On the peaks of Vasudhara and Ratnadhara are eight and seven ancient cities, belonging to the Vasus and the Saptarishis. On the excellent mountain Ekashringa is the seat of Prajapati, Brahma with four faces. On Gajaparvata, the goddess herself, surrounded by the great elements, abides. On the excellent mountain Vasudhara is the dwelling of sages, Siddhas, and Vidyadharas. There are eighty-four other cities, with great walls and gateways. There, in the mountain called Anekaparvata, live the Gandharvas, skilled in battle. Their lord is the god Rajarajaikapingala. The Suras, Rakshasas, and Danavas have cities on Panchakuta and Shatashringa, and the Yakshas have a hundred cities. On Tamrabha is the hundred-citied city of Takshaka. On Vishakhaparvata is the abode of Guha. On the excellent mountain Shvetodaya is the great palace of the Gandharvas. On Harikuta is the god Hari. On Kumuda is the abode of the Kinnaras. On Anjana are the great serpents. On Sahasrashikhara is the abode of the Daityas, who are fierce in action. There are a thousand ancient cities of the Hemamalins. On Mukuṭa, on the wing of the mountain, are four abodes. Thus, on the mountains of Meru are the abodes of the gods. On the boundary mountain Devakuta, the layout of the cities is described. Upon it, at a distance of a hundred yojanas, is the birthplace of Garuda. On its side, there are seven Gandharva cities, each thirty yojanas wide and forty yojanas long. The Gandharvas there are called Agneyas, powerful by name. There also is a city, thirty yojanas in circumference, belonging to the Simhikeyas. There, on Devakuta, the deeds of the divine sages are seen. The city of the Kalakeyas is also there. Likewise, on the southern inner slope, there is a city called Sunan, thirty yojanas wide and sixty-two yojanas long, belonging to the proud shape-shifters. In the middle of Hemakuta is the banyan tree of Mahadeva. Now, the description of Kailasa is given. On the slope of Kailasa, there is a region a hundred yojanas long, adorned with a garland of worlds. In its center is an assembly hall. There stands the celestial palace called Tatpushkara. That palace is the abode of Dhanada. There, the great treasures Padma, Mahapadma, Makara, Kacchapa, Kumuda, Shankha, Nila, Nanda, and Mahānidhi reside. There is the abode of the guardians of the worlds, beginning with Chandra. There flows the river Mandakini, and also the rivers Kanakamanda and Manda by name. There are other rivers as well. On the eastern side, there are ten Gandharva cities, each a hundred yojanas long and thirty yojanas wide, ruled by kings such as Sakubahuharikesha and Citrasena. On the western peak, there are forty Yaksha cities, each eighty yojanas long and forty yojanas wide. Among them, Mahamali, Sunetra, and Chakra are the leaders. On the southern side, in the caves of Kunjadari, are a hundred cities of the Kinnaras, extending to the ocean. Among them, there are a hundred kings, headed by Druma and Sugriva. There, the marriage of Rudra and Uma took place. Gauri performed austerities, and Rudra, in the form of a hunter, remained there. There, Soma and Shankara, standing together, surveyed Jambudvipa. There, the grove of Uma, sung by many Kinnaras and Gandharvas, is adorned with many flowering creepers, where the blessed Maheshvara attained the form of Ardhanarishvara. There is the autumnal forest of Kartikeya. Between Pushpa and Citrakrauncha, Kartikeya was anointed, and on its eastern slope is the abode of the Siddha sages, called Kalapagrama. There are thousands of hermitages of great sages such as Markandeya, Vasishtha, Parashara, Nala, Vishvamitra, and Uddalaka. Now, hear of the part of the western mountain king, Nishadha. On its central peak is the abode of Vishnu and Mahadeva. On its northern slope is a great city called Lamba, thirty yojanas wide, belonging to the Rakshasas. On its southern side is an underground city. To the west of Prabhedaka are the ancient cities of the gods, Danavas, and Siddhas. On the summit of that mountain is the great Soma rock. On it, during the full moon, Soma himself descends. On its northern side is Trikuta. There, Brahma abides at times. Likewise, there is the abode of Agni, who is worshipped by the gods in embodied form.
इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः
Thus ends the eighty-first chapter in the divine scripture of the glorious Varaha Purana.
रुद्र उवाच । निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितं । नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते । तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषां सप्तकुलपर्वतानां कोटिशः प्रसूतिः । तन्निवासिनो जनपदास्तन्नामान एव द्रष्टव्याः । तद्यथा सौरग्रामात्तसांतपो कृतसुराश्रवण कम्बलमाहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीयसमुद्रान्तक कुरकुञ्चसुवर्णः तटककुह श्वेताङ्गकृष्णपाटविदकपिलकर्णिकमहिषकुब्जकरनाटमहोत्कटशुकनासगजभूमककुरञ्जन मनाहकिंकिसपार्णभौमकचोरकधूमजन्म अङ्गारजतीवनजीवलौकिलवाचां सहाङ्गमधुरेयशुकेचकेयश्रवणमत्त कासिकगोदावामकुलपञ्जावर्ज्जहमोदशअलक एते जनपदास्तत्पर्वतोत्था नदीः पिबन्ति । तद्यथा प्लक्षा महाकदम्बा मानसी श्यामा सुमेधा बहुला विवर्णा पुङ्खा माला दर्भवती भद्रानदी शुकनदी पल्लवा भीमा प्रभ़ञ्जना काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदा चन्द्रावती सुमूलावती ककुद्मिनी विशाला करण्टका पीवरी महामाया महिषी मानुषी चण्डा एता नदीः प्रधानाः। शेषाः क्षुद्रनद्यः सहस्त्रशश्चेति
रुद्र उवाच । उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः । आचक्षते यथान्यायं ये च पर्वतवासिनः । तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ।। ८४.
Rudra said: Of all the northern and southern regions, and those who dwell in the mountains, I will declare according to tradition. Listen, O sages, with concentration, as I recount.
दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च । वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः । मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ।। ८४.
To the south of Shveta and north of Nila, in the northwest, is the region called Ramyaka. There, humans are born who are wise, pure, and free from old age and foulness.
तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः । तत्फलाद् रसपानाद्धि दशवर्षसहस्त्रिणः । आयुषा सर्वमनुजा जायन्ते देवरूपिणः ।। ८४.
There, a great tree is remembered, the red Nyagrodha. By eating its fruit and drinking its sap, all people are born with a lifespan of ten thousand years, and they appear like gods.
उत्तरेण च श्वेतस्य त्रिश्रृङ्गस्य च दक्षिणे । वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी । यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ।। ८४.
North of Shveta and south of Trishringa is the region called Hiranyamaya. There flows the river Hairanvati. Yakshas reside there, powerful and able to assume any form.
एकादशहस्त्राणि समानां तेन जीवते । शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ।। ८४.
There, eleven thousand people live together. Other regions have populations of ten or five hundred each.
लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः । तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ।। ८४.
In that land, there are Lakucha and small trees. By eating their fruit, humans live there.
तथा त्रिश्रृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण तस्य चोत्तरश्रृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः । वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाः क्षीरासवाः सन्ति। मणिभूमिः सुवर्णबालुका। तस्मिन् स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्त्रायुषः । तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्त्रमतिक्रम्य देवलोकाच्चन्द्रद्वीपो भवति योजनसहस्त्रपरिमण्डलः । तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ। तयोश्च मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला। एतत्कुरुवर्षं च । तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्त्रमतिक्रम्य देवलोकात् सूर्यद्वीपो भवति योजनसहस्त्रपरिमण्डलः। तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः। तस्मात्सूर्यावर्त्तनामा नदी निर्गता। तत्र च सूर्यस्याधिष्ठितम् तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्त्रायुषः। तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्त्रमतिक्रम्य समुद्रं दशयोजनसहस्त्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम । तत्र च भद्रासनं वायोरनेकरत्नशोभितम्। तत्र विग्रहवान् वायुस्तिष्ठति। तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्त्रायुषः ।। ८४.
रुद्र उवाच । इयं भूपद्मव्यवस्था कथिता। इदानीं भारतं नवभेदं श्रृणुत। तद्यथा। इन्द्रः कसेरुः ताम्रवर्णो गभस्तिः नागद्वीपः सौम्यः गन्धर्वः वारुणः भातरं चेति। सागरसंवृतमेकैकं योजनसहस्त्रप्रमाणम्। तत्र च सप्त कुलपर्वता भवन्ति। तद्यथा। महेन्द्रो मलयः सह्यः शुक्तिमान्नृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः। अन्ये च मन्दरशारदर्दुरकोलाहलसुरमैनाकवैद्युतवारन्धमपाण्डुरतुङ्गप्रस्थकृष्णगिरिजयन्तरैवतऋष्यमूकगोमन्तचित्रकूटश्रीचकोरकूटशैलकृतस्थल इत्येते क्षुद्रपर्वताः। शेषाः क्षुद्रतराः। तेषामार्या म्लेच्छा जनपदा वसन्ति। पिबन्ति चैतासु नदीषु पानीयम्। तद्यथा गङ्गा सिन्धु सरस्वती शतद्रु वितस्ता विपाशा चन्द्रभागा सरयू यमुना इरावती देविका कुहू गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निस्वरा गण्डकी चक्षुष्मती लोहिता इत्येता हिमवत्पादनिर्गताः
Rudra said: The arrangement of the earth-lotus has been described. Now hear about Bharata, divided into nine parts: Indra, Kaseru, Tamravarna, Gabhasti, Nagadvipa, Saumya, Gandharva, Varuna, and Bhatara. Each is surrounded by the ocean and measures a thousand yojanas. There are seven clan-mountains: Mahendra, Malaya, Sahya, Shuktiman, Riksha, Vindhya, and Pariyatra. Other minor mountains include Mandara, Sharada, Dardura, Kolahala, Surama, Mainaka, Vaidyuta, Varandhama, Pandura, Tungaprastha, Krishna, Jayanta, Raivata, Rishyamuka, Gomanta, Chitrakuta, Shrichakora, Kuta, Shaila, and Krtasthala. The smallest mountains are inhabited by Aryas and Mlecchas. They drink from the rivers: Ganga, Sindhu, Sarasvati, Shatadru, Vitasta, Vipasha, Chandrabhaga, Sarayu, Yamuna, Iravati, Devika, Kuhu, Gomati, Dhutapapa, Bahuda, Drishadvati, Kaushiki, Nisvara, Gandaki, Chakshushmati, Lohita—these arise from the foot of Himavat.
शोणा ज्योतीरथा नर्मदा सुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोया पिशाचिका चित्रोत्पला विशाला वञ्जुला बालुका वाहिनी शुक्तिमती विरजा पङ्किनी रिरी कुहू इत्येता ऋक्षप्रसूताः। मणिजाला शुभा तापी पयोष्णीं शीघ्रोदा वेष्णा पाशा वैतरणी वेदी पाली कुमुद्वती तोया दुर्गा अन्त्या गिरा एता विन्ध्यपादोद्भवाः। गोदावरी भीमरथी कृष्णा वेणा वञ्जुला तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी इत्येताः सह्यपादोद्भवाः
Shona, Jyotiratha, Narmada, Surasa, Mandakini, Dasharna, Citrakuta, Tamasa, Pippala, Karatoya, Pishachika, Citrotpala, Vishala, Vanjula, Baluka, Vahini, Shuktimati, Viraja, Pankini, Riri, Kuhu—these arise from Riksha mountain. Manijala, Shubha, Tapi, Payoshni, Shighroda, Veshna, Pasha, Vaitarani, Vedi, Pali, Kumudvati, Toya, Durga, Antya, Gira—these arise from Vindhya mountain. Godavari, Bhimarathi, Krishna, Vena, Vanjula, Tungabhadra, Suprayoga, Vahya, Kaveri—these arise from Sahya mountain.
शतमाला ताम्रपर्णी पुष्पावती उत्पलावती इत्येता मलयजाः। त्रियामा ऋषिकुल्या इक्षुला त्रिविदा लाङ्गूलिनी वंशवरा महेन्द्रतनयाः। ऋषिका लूसती मन्दगामिनी पलाशिनी इत्येताः शुक्तिमत्प्रभवाः। एताः प्राधान्येन कुलपर्वतनद्यः। शेषाः क्षुद्रनद्यः। एष जम्बूद्वीपो योजनलक्षप्रमाणतः। अध्यायः ८६ अतः परं शाकद्वीपं निबोधत। जम्बूद्वीपस्य विस्ताराद् द्विगुणपरिणाहाल्लवणोदकश्च जम्बूद्वीपसमस्तेन द्विगुणावृतः। तत्र च पुण्या जनपदाश्चिरान्म्रियन्ते दुर्भिक्षजराव्याधिरहितश्च देशोऽयम्। सप्तैव कुलपर्वतास्तावत् तिष्ठन्ति तस्य चोभयतो लवणक्षीरोदधी व्यवस्थितौ। तत्र च प्रागायतः शैलेन्द्र उदयो नाम पर्वतः। तस्यापरेण जलधारो नाम गिरिः। सैव चन्द्रेति कीर्त्तितः। तस्य च जलमिन्द्रो गृहीत्वा वर्षति। तस्य पारे रैवतको नाम गिरिः। सैव नारदो वर्ण्यते तस्मिंश्च नारदपर्वतादुत्पन्नो तस्य चापरेण श्यामो नाम गिरिः। तस्मिंश्च प्रजाः श्यामत्वमापन्नाः सैव दुन्दुभिर्वर्ण्यते। तस्मिन् सिद्धा इति कीर्तिताः प्रजानेकविधाः क्रीडन्तस्तस्यापरे रजतो नाम गिरिः सैव शाकोच्यते। तस्यापरेणाम्बिकेयः स च विभ्राजसो भण्यते। स एव केसरीत्युच्यते। ततश्च वायुः प्रवर्त्तते। गिरिनामान्येव वर्षाणि तद्यथा। उदयसुकुमारो जलधारक्षेमकमहाद्रुमेति प्रधानानि द्वितीयपर्वतनामभिरपि वक्तव्यानि। तस्य च मध्ये शाकवृक्षस्तत्र च सप्तमहानद्यो द्विनाम्न्यः। तद्यथा सुकुमारी कुमारी नन्दा वेणिका धेनुः इक्षुमती गभस्ति इत्येता नद्यः
अथ तृतीयं कुशद्वीपं श्रृणुत। कुशद्वीपेन क्षीरोदः परिवृतः शाकद्वीपस्य विस्ताराद् द्विगुणेन। तत्रापि सप्त कुलपर्वताः। सर्वे च द्विनामानः। तद् यथा --- कुमुदविद्रुमेति च सोच्यते। उन्नतो हेमपर्वतः सैव। बलाहको द्युतिमान् सैव। तथा द्रोणः सैव पुष्पवान्। कङ्कश्च पर्वतः सैव कुशेशयः। तथा षष्ठो महिषनामा स एव हरिरित्युच्यते। तत्राग्निर्वसति। सप्तमस्तु ककुद्मान् नाम सैव मन्दरः कीर्त्यते। इत्येते पर्वताः कुशद्वीपे व्यवस्थिताः एतेषां वर्षभेदो भवति द्विनामसंज्ञः। कुमुदस्य श्वेतमुद्भिदं तदेव कीर्त्यते। उन्नतस्य लोहितं वेणुमण्डलं तदेव भवति। बलाहकस्य जीमूतं तदेव रथाकार इति।द्रोणस्य हरितं तदेव बलाधनं भवति। कङ्कस्यापि ककुद्मान् नाम। वृत्तिमत् तदेव मानसं महिषस्य प्रभाकरम्। ककुद्मतः कपिलं तदेव संख्यातं नाम। इत्येतानि वर्षाणि। तत्र द्विनाम्न्यो नद्यः। प्रतपा प्रवेशा सैवोच्यते। द्वितीया शिवा यशोदा सा च भवति। तृतीया पित्रा नाम सैव कृष्णा भण्यते। चतुर्थी ह्रादिनी नाम सैव चन्द्रा निगद्यते। विद्युता च पञ्चमी शुक्ला सैव। वर्णा षष्ठी सैव विभावरी। महती सप्तमी सैव धृतिः। एताः प्रधानाः शेषाः क्षुदनद्यः। इत्येष कुशद्वीपस्य संनिवेशः। शाकद्वीपो द्विगुणः संनिविष्टश्च कथितः। तस्य च मध्ये महाकुशस्तम्बः। एष च कुशद्वीपो दधिमण्डोदेनावृतः क्षीरोदद्विगुणेन
Now hear about the third, Kushadvipa. Kushadvipa is surrounded by the milk ocean, and is twice the size of Shakadwipa. There too are seven clan-mountains, each with two names: Kumuda, Vidruma, Unnata, Hemaparvata, Balahaka, Dyutiman, Drona, Pushpavan, Kanka, Kusheshaya, Mahisha, Hari, Kakudman, Mandara. These mountains are established in Kushadvipa. Each has a region, each with two names: Kumuda's region is called Shveta, Unnata's is Lohita, Balahaka's is Jimuta, Drona's is Harita, Kanka's is Kakudman, Mahisha's is Prabhakara, Kakudman's is Kapila. These are the regions. There are rivers with two names: Pratapa, Pravesha; Shiva, Yashoda; Pitra, Krishna; Hradini, Chandra; Vidyuta, Shukla; Varna, Vibhavari; Mahati, Dhriti. These are the principal rivers; the rest are minor rivers. This is the arrangement of Kushadvipa. Shakadwipa is twice its size and is described as such. In its center is the great Kush stalk. Kushadvipa is surrounded by the curd ocean, twice the size of the milk ocean.
रुद्र उवाच । अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद् द्विगुणमानतः समुद्रः क्रौञ्चेन द्विगुणेनावृतः। तस्मिंश्च सप्तैव प्रधानपर्वताः। प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः। तथैवान्धकारः सैवाच्छोदकः। देवावृत्तो स च सुरापो भण्यते। ततो देविष्ठः स एव काञ्चनश्रृङ्गो भवति। देवनन्दात्परो गोविन्दः, द्विविन्द इति। ततः पुण्डरीकः सैव तोषाशयः। एते सप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः। सर्वे च परस्परेणोच्छ्रयाः। तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशः सैव माधवः स्मृतः वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान् सोमप्रकाशः। ततः पावकः सैव सुदर्शनः। तथा चान्धकारः सैव संमोहः। ततो मुनिदेशः स च प्रकाशः। ततो दुन्दुभिः सैवानर्थ उच्यते। तत्रापि सप्तैव नद्यः।। ८७.
Rudra said: Now comes Krauncha, the fourth, twice the size of Kushadvipa, surrounded by the ocean twice over. There are seven principal mountains: Krauncha, Vidyullata, Raivata, Manasa, Pavaka, Andhakara, Achchodaka, Devavritta, Surapa, Devishta, Kanchana-shringa, Devananda, Govinda, Dvivinda, Pundarika, Toshashaya. These seven jewel mountains are established in Kraunchadvipa, each higher than the last. The regions are: Krauncha's is Kushala, Madhava; Vamana's is Manoanuga, Samvartaka, Toshnavan, Somaprakasha; Pavaka's is Sudarshana; Andhakara's is Sammoha; Munidesha's is Prakasha; Dundubhi's is Anartha. There are seven rivers.
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधाः स्मृताः। गौरी सैव पुष्पवहा कुमुद्वती ताम्रवती रोधसंध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैव गोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः।। क्रौञ्चद्वीपो घृतोदेनावृतः। घृतोदा शाल्मलेनेति।। ८७.
Gauri, Kumudvati, Sandhya, Ratri, Manojava, Khyati, Pundarika, Ganga—these seven are remembered. Gauri is also called Pushpavaha; Kumudvati is Tamravati; Sandhya is Sukha-vaha; Manojava is Kshiproda; Khyati is Gobahula; Pundarika is Citravega. The rest are minor rivers. Kraunchadvipa is surrounded by the clarified butter ocean, called Shalmala.
रुद्र उवाच । त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत । शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत । क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ।। ८८.
Rudra said: I will now speak of the remaining three islands and their peoples. Listen as I describe the fifth region, Shalmala. Shalmala is considered twice the size of Kraunchadvipa.
घृतसमुद्रमावृत्य व्यवस्थिस्तद्विस्तारो द्विगुणस्तत्र च सप्त पर्वताः प्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः। तत्र च पर्वताः। सुमहान् पीतःशातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशल ----- जाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति। अथ षष्ठं गोमेदं कथ्यते। शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपि तद्विगुणेन गोमेदेनावृतः। तत्र च प्रधानपर्वतौ द्वावेव। एकस्य तावत्तावसरः। अपरश्च कुमुद इति। समुद्रश्चेक्षुरसस्तद्द्विगुणेन पुष्करेणावृतः। तत्र च पुष्कराख्ये मानसो नाम पर्वतः। तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च। स्वादोदकेनावृतम्। ततश्च कटाहम्। एतत् पृथिव्याः प्रमाणम्। ब्रह्माण्डस्य च सकटाहविस्तारप्रमाणम्। एवंविधानामण्डानां परिसंख्या न विद्यते। एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी रसातलान्तःप्रविष्टानि दंष्ट्रैकैनोद्धृत्य स्थितौ स्थापयति। एष वः कथितो मार्गो भूमेरायामविस्तरः । स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ।। ८८.
Encircled by the clarified butter ocean, its extent is twice that. There are seven principal mountains, and as many regions and rivers. The mountains are: Sumahan, Pita, Shatakaumbha, Sarvagunasauvarna, Rohita, Sumanasa, Kushala, Jambunada, Vaidyuta—these are the clan-mountains and regions. Next, the sixth, Gomeda, is described. Just as Shalmala is surrounded by the Suroda ocean, so Suroda is surrounded by Gomeda, twice its size. There are two principal mountains: one is Tavasara, the other Kumuda. The ocean of sugarcane juice is twice surrounded by Pushkara. There, the mountain called Manasa is in the region called Pushkara, which is divided in two. It is surrounded by sweet water. Then comes the boundary. This is the measure of the earth, and the extent of the Brahmanda is up to the boundary. There is no count of such worlds. In every cycle, the Lord Narayana, in the form of a boar, enters the netherworld and lifts them up with a single tusk, establishing them. Thus, the path and the extent of the earth have been described. May you be blessed; I will depart for Kailasa, O twice-born.
श्रीवराह उवाच । एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् । ते च सर्वे गता देवा ऋषयश्च यथागतम् ।। ८८.
Śrī Varāha said: Having spoken thus, Rudra departed and in a moment became invisible; and all those gods and sages also departed as they had come.
धरण्युवाच । परमात्मा शिवः पुण्य इति केचिद् भवं विदुः । अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ।। ८९.
Dharanī said: Some know Śiva, the Supreme Self, as pure and holy; others know Bhava as Hari, Īśāna, or the Four-faced one.
एतेषां कतमो देवः परः को वाऽथवाऽपरः । एतद्देव ममाचक्ष्व परं कौतूहलं विभो ।। ८९.
Among these, which god is supreme, and who is subordinate? O Lord, please tell me this, for I am greatly curious.
श्रीवराह उवाच । परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः । तस्माद् रुद्रोऽभवद् देवि स च सर्वज्ञतां गतः ।। ८९.
Śrī Varāha said: Nārāyaṇa is the supreme god; from him was born the Four-faced one, and from him arose Rudra, who attained omniscience.
तस्याश्चर्याण्यनेकानि विविधानि वरानने । श्रृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ।। ८९.
O beautiful-faced one, listen as I recount to you the many and various wondrous deeds of his, O sinless one.
कैलासशिखरे रम्ये नानाधातुविचित्रिते । वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ।। ८९.
On the delightful peak of Kailāsa, adorned with various minerals, dwells the god with the trident and three eyes, day after day.
सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः । गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ।। ८९.
One day, the great god, bearer of the bow Pināka, revered by all beings, was surrounded by his attendants and by Gaurī.
तत्र सिंहमुखाः केचिद् गणा नर्दन्ति सिंहवत् । अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ।। ८९.
There, some of the attendants, with lion faces, roared like lions; others had elephant faces, and still others had horse faces.
अपरे शिंशुमारास्या अपरे सूकराननाः । अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा । छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ।। ८९.
Some had the faces of porpoises, others of boars; some had horse faces, fierce and terrible, with donkey and goat faces as well, and some with faces of sheep and fish, cruel and countless, bearing weapons in their hands.
केचिद् गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च । हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ।। ८९.
Some sang, some danced, some ran, some shouted; some laughed, some made shrill noises, and some, mighty in strength, roared.
रुद्र उवाच । अथ नदीनामवतारं श्रृणुत । आकाशसमुद्रो यः कीर्त्यते सामाख्यस् तस्मादाकाशगामिनी नदी प्रवृत्ता । सा चानवरतमिन्द्रगजेन क्षोभ्यते । सा च चतुरशीतिसहस्त्रोच्छ्राया । सा मेरोः सुदर्शनं करोति । सा च मेरुकूटतटान्तेभ्यः प्रस्खलिता चतुर्धा संजाता । षष्टिं च योजनसहस्त्रं निरालम्बा पतमाना प्रदक्षिणमनुसरन्ती चतुर्द्धा जगाम । सीता चालकनन्दा चक्षुर्भद्रा चेति नामभिः । यथोद्देशं सा चानेकशतसहस्त्रपर्वतानां दारयन्ती गां गतेति गङ्गेत्युच्यते अथ गन्धमादनपार्श्वेऽमरगण्डिका वर्ण्यते । एकत्रिंशद्योजनसहस्त्राणि आयामः चतुःशतविस्तीर्णम्। तत्र केतुमालाः सर्वे जनपदाः । कृष्णवर्णाः पुरुषा महाबलिनः । उत्पलवर्णाः स्त्रियः शुभदर्शनाः । तत्र च महावृक्षाः पनसाः सन्ति । तत्रेश्वरो ब्रह्मपुत्रस्तिष्ठति । तत्रोदपानाच्च जरारोगविवर्जिता वर्षायुतायुषश्च नराः । माल्यवतः पूर्वपार्श्वे पूर्वगण्डिका एकश्रृङ्गाद्योजनसहस्त्राणि मानतस्तत्र च भद्राश्वा नाम जनपदाः भद्रसालवनं च तत्र व्यवस्थितम् । कालाम्रवृक्षाः पुरुषाः श्वेताः पद्मवर्णिनः स्त्रियः कुमुदवर्णा दशवर्षसहस्त्राणि तेषामायुः । तत्र च पञ्च कुलपर्वताः । तद्यथा शैलवर्णः मालाख्यः कोरजश्च त्रिपर्णः नीलश्चेति तद्विनिर्गताः। तदम्भःस्थितानां देशानां तान्येव नामानि । ते च देशा एता नदीः पिबन्ति। तद्यथा सीता सुवाहिनी हंसवती कासा महाचक्रा चन्द्रवती कावेरी सुरसा शाखावती इन्द्रवती अङ्गारवाहिनी हरितोया सोमावर्ता शतह्रदा वनमाला वसुमती हंसा सुपर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शेवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा सुरावती कामोदा पताकाश्चेत्येता महानद्यः । एताश्च गङ्गासमाः कीर्तिताः। आजन्मान्तं पापं विनाशयन्ति । क्षुद्रनद्यश्च कोटिशः। ताश्च नदीर्ये पिबन्ति ते दशवर्षसहस्त्रायुषः। रुद्रोमाभक्ता इति
Rudra said: Now listen to the descent of the rivers. The so-called sky-ocean, renowned by that name, gives rise to the river that flows through the sky. This river is constantly agitated by Indra's elephant. It rises to a height of eighty-four thousand (units). It creates a splendid view of Mount Meru. From the edge of Meru's peaks, it splits and becomes fourfold. Falling without support for sixty thousand yojanas, it circles Meru and proceeds in four directions, named Sita, Alakananda, Chakshubhadra. According to their course, these rivers break through hundreds of thousands of mountains and reach the earth, thus called Ganga. Next, on the side of Gandhamadana mountain, Amaragandika is described, measuring thirty-one thousand yojanas in length and four hundred in breadth. There, all the Ketumala peoples reside: the men are dark-skinned and mighty, the women are lotus-colored and beautiful. Great jackfruit trees grow there. The lord is a son of Brahma. From the wells there, people live for ten thousand years, free from old age and disease. On the eastern side of Malyavat mountain is Purvagandika, measuring one thousand yojanas from a single peak. There are the Bhadrasva people and the Bhadrasala forest. The men are white, the women are water-lily colored, and their lifespan is ten thousand years. There are five clan-mountains: Shailavarna, Malakhya, Koraja, Triparna, and Nila. The regions named after these mountains are inhabited by those who dwell in their waters. These regions drink from the rivers: Sita, Suvahini, Hamsavati, Kasa, Mahachakra, Chandravati, Kaveri, Surasa, Shakhavati, Indravati, Angaravahini, Haritoya, Somavarta, Shatahrada, Vanamala, Vasumati, Hamsa, Suparna, Panchaganga, Dhanushmati, Manivapra, Subrahmabhaga, Vilasini, Krishnatoya, Punyoda, Nagavati, Shiva, Shevalini, Manitata, Kshiroda, Varunavati, Vishnupadi, Mahanadi, Hiranyaskandhavaha, Suravati, Kamoda, Pataka—these are the great rivers. They are said to be equal to the Ganga, destroying sin from birth to death. There are countless minor rivers. Those who drink from these rivers live for ten thousand years. Rudra says: do not be devoted to me.
Rudra said: The nature of the Bhadrasva people has been described, and the Ketumala region explained in detail. Now, west of the Nishadha mountain, the rivers of the Kulachala region are mentioned. Thus, from the seven clan-mountains—Vishakha, Kambala, Jayanta, Krishna, Harita, Ashoka, Vardhamana—countless rivers arise. The inhabitants of these regions are named after them. For example: Sauragrama, Tasamtapa, Krtasurashravana, Kambalamaha, Heyachalakuta, Vasamula, Tapakrauncha, Krishna, Angamani, Pankajachuda, Malasomiya, Samudrantaka, Kurakunca, Suvarna, Tatakakuha, Shvetanga, Krishnapata, Vidaka, Pilakarni, Kamahisha, Kubja, Karanata, Mahotkata, Shukanasa, Gajabhuma, Kakuranjana, Manaha, Kinkisa, Parna, Bhaumaka, Coraka, Dhumajanma, Anga, Rajat, Ivana, Jivalau, Kilavacha, Sahanga, Madhureya, Shukeca, Keyashravana, Matta, Kasi, Godava, Amakulapanja, Varjja, Hamoda, Saalaka—these peoples drink from the rivers arising from their mountains. The principal rivers are: Plaksha, Mahakadamba, Manasi, Shyama, Sumedha, Bahula, Vivarna, Punkha, Mala, Darbhavati, Bhadranadi, Shukanadi, Pallava, Bhima, Prabhanjana, Kamba, Kushavati, Daksha, Kasavati, Tunga, Punyoda, Chandravati, Sumulavati, Kakudmini, Vishala, Karantaka, Pivari, Mahamaya, Mahishi, Manushi, Chanda. These are the main rivers; the rest are thousands of minor rivers.
Likewise, in Trishringa, with peaks of gems and gold and all kinds of jewels, from its northern peak to the southern ocean, are the Uttarakurus. Clothes and ornaments grow on the trees; there are milk-trees and milk-liquors. The ground is covered with jewels and golden sand. There, people descended from heaven live, with a lifespan of thirteen thousand years. To the west of this island, four thousand yojanas beyond, is Chandradvipa, circular and a thousand yojanas in diameter, belonging to the realm of the gods. In its center are two great mountains, Chandrakanta and Suryakanta. Between them flows the great river Chandravati, surrounded by many fruit trees and rivers. This is the Kuruvasha region. To its northern shore, five thousand yojanas beyond the ocean, is Suryadvipa, circular and a thousand yojanas in diameter, belonging to the realm of the gods. In its center is a great mountain, a hundred yojanas wide and equally high. From it flows the river Suryavarta. There, the sun is worshipped, and the people are of the sun's color, living for ten thousand years. To the west of this island, four thousand yojanas beyond, is Rudrakara island, circular and ten thousand yojanas in diameter. There is the auspicious seat of the wind, adorned with many jewels. There, the wind, in embodied form, resides. The people are golden-colored, living for five thousand years.
Shatamala, Tamraparni, Pushpavati, Utpalavati—these arise from Malaya mountain. Triyama, Rishikulya, Ikshula, Trivida, Langulini, Vamshavara—these are daughters of Mahendra. Rishika, Lusati, Mandagamini, Palashini—these arise from Shuktiman. These are the principal rivers from the clan-mountains; the rest are minor rivers. This is Jambudvipa, measuring a hundred thousand yojanas. Now, listen about Shakadwipa. Twice the size of Jambudvipa, surrounded by salt water, and encircled by the ocean twice over. There, the virtuous peoples live long, and the land is free from famine, old age, and disease. There are seven clan-mountains, and on both sides are the salt and milk oceans. To the east is the mountain Shailendra, called Udaya. Beyond it is Jaladhara, also called Chandra. Indra takes its water and makes it rain. Beyond it is Raivataka, also called Narada. From Narada mountain arises many diverse peoples, playing and called Siddhas. Beyond it is Shyama, also called Dundubhi, where the people are dark. Beyond it is Rajata, also called Shaka. Beyond it is Ambikeya, also called Vibhrājasa, also called Kesari. Then the wind blows. The mountain names are also the names of the regions: Udaya, Sukumara, Jaladhara, Kshema, Mahadruma—these are the principal ones, and others are named similarly. In its center is the Shaka tree, and there are seven great rivers, each with two names: Sukumari, Kumari, Nanda, Venika, Dhenu, Ikshumati, Gabhasti.