सुरभीणी निवेद्येत्थं विज्ञाप्यो मधुसूदनः
तथास्त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात्
सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव
नक्तां भुञ्जीत देवर्षे तैलक्षारविवर्जितमट्
लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत्
यावद् चवृश्चिकराशिस्थः प्रतिभाति दिवाकरः
तुलास्थेर्ऽके हरिः कामः शिवः पश्चाद्विबुध्यते
सशय्यास्तरणोपेता यथा विभवमात्मनः
यस्मिंश् चीर्णे वियोगस्तु न भवेदिह कस्यचित्
युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता
वसते संनिधाने तु तत्र पूजाक्षया स्मृता
स्नातः संपूजयेत् पुष्पैर्धत्तूरस्य त्रिलोचनम्
विप्राय दद्यान्नैवेद्यं सहिरण्यं द्विजोत्तम
धूपयेत् सर्जनिर्यासं नैवेद्यं मधुमोदकैः
प्रीयतां मे हिरण्याक्षो दक्षिणा सतिला स्मृता
धुपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम्
प्रीयतां गवान् स्थासुरिति वाच्यमनिष्ठुरम्
मासि मार्गशिरे स्नानं दध्नार्चा भद्रया स्मृता
नमो ऽस्तु प्रीयतां शर्वस्त्विति वाच्यं च पण्डितैः
धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली
वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत्
धूपः पदम्बनिर्यासो नैवेद्यं सतिलोदनम्
प्रीयतां मे महादेव उमापतिरितीरयेत्
पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात्
प्रीयस्व दीनो ऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम्
उपवासं समुदीतं कर्तव्यं द्विजसत्तम
पूजयेत्कुन्दकुसुमैर्धूपयेत् चन्दनं त्वपि
वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः
गुग्गुलुं महिषाख्यं च घृताक्तं धूपयेद् बुधः
दक्षिणा च सनैवेद्यं सृगाजिनमुदाहृतम्