आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान्
आराधनाय शर्वस्य केशवस्य च धीमतः
तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः
देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात्
सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम्
एकादश्यां जगत्स्वामी शयनं परिकल्पयेत्
कृत्वोपवीतकं चैव सम्यक्संपूज्य वै द्विजान्
लब्ध्वा पीताम्बरधरः स्वस्ति निद्रां समानयेत्
कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते
सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके
वैयाघ्रे च जटाभारं समुद्ग्रन्थ्यान्यचर्मणा
ततो ऽमराणां रजनी भवते दक्षिणायनम्
तल्पे स्वपिति लोकानां दर्शयन् मार्गमुत्तमम्
विनायकश्चुर्थ्या तु पञ्चम्यामपि धर्मराट्
कात्यायनी तथाष्टम्यां नवम्यां कमलालया
एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च
स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ
वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः
द्वितीया सा शुभा पुण्या अशून्यशयनोदिता
पर्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने
सुरभीणी निवेद्येत्थं विज्ञाप्यो मधुसूदनः
तथास्त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात्
सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव
नक्तां भुञ्जीत देवर्षे तैलक्षारविवर्जितमट्
लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत्
यावद् चवृश्चिकराशिस्थः प्रतिभाति दिवाकरः
तुलास्थेर्ऽके हरिः कामः शिवः पश्चाद्विबुध्यते
सशय्यास्तरणोपेता यथा विभवमात्मनः
यस्मिंश् चीर्णे वियोगस्तु न भवेदिह कस्यचित्
युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता