निशाचरस्य वृद्धिं तामचिन्तयत योगवित्
देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान्
महांशुनखरः सूर्यस्तद्विघातमचिन्तयत्
स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत्
भानुभी राक्षसपुरं तद् दृष्टं च यथैच्छया
निपपाताम्बराद् भ्रष्टः क्षीणपुण्य इव ग्रहः
नमो भवाय शर्वाय इदमुच्चैरुदीरयत्
हा देति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ
श्रुत्वा संचिन्तयामास केनासौ पात्यते भुवि
पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः
दृष्टमात्रस्त्रिणेत्रेण निपपात ततो ऽमबरात्
यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः
निपपातान्तरिक्षात् स वृतः किन्नरचारणैः
अर्द्धपक्वं यथा तालात् फलं कपिभिरावृतम्
निपतस्व हरिक्षेत्रे यदि श्रेयो ऽभिवाञ्छसि
किं तत् क्षेत्रं हरेः पुण्यं वदध्वं शीघ्रमेव मे
साम्प्रतं वासुदेवस्य भावि तच्छङ्करस्य च
एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी
वरणायास्तथैवास्यास्त्वन्तरे निपपात ह
वरणायां समभ्येत्य न्यमज्जत यथेच्छया
लुलंस्त्रिणेत्रवह्न्यार्त्तो भ्रमते ऽलातचक्रवत्
नागा विद्याधराश्चापि पक्षिणो ऽप्सरसस्तथा
तावन्तो ब्रह्मसदनं गता वेदयितुं मुने
रम्यं महेश्वरावासं मन्दरं रविकारणात्
प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत्
कृत्वा नामास्य लोलेति रथमारोपयत् पुनः
सबान्धवं सनगरं पुनरारोपयद् दिवि
प्रणम्य केशवं देवं वैराजं स्वगृहं गतः
दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्ट्या न च संप्रदग्धः
स्वयंभुवा चापि निशाचरेन्द्रस् त्वारोपितः खे सपुरः सबन्धुः