जगाम यमुनां स्नातुं सापि शुष्कजलाभवत्
प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता
सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया
स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत
समायुतो योगयुतो ऽपि पापान्नावाप मोक्षं जलदध्वजो ऽसौ
तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वाजम्
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत्
शङ्खचक्रगदापाणे वासुदेव नमो ऽस्तु ते
नमस्ते निर्गुणानन्त अप्रर्क्याय वेधसे ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमो ऽस्तु ते
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम्
प्रजापाल महाबाहो जनार्दन नमो ऽस्तु ते
गुणाभियुक्त देवेश सर्वव्यापिन् नमो ऽस्तु ते
वायुर्बुद्धिर्मनश् चापि शर्वरी त्वं नमो ऽस्तु ते
क्षमा दानं दया लक्षमीर्ब्रह्मचर्यं त्वमीश्वर
उपवेदा भवानीश सर्वो ऽसि त्वं नमो ऽस्तु ते
लोके भवान् कारुणिको मतो मे त्रायस्व मां केश्व पापबन्धात्
दग्धो ऽस्मि नष्टो ऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थो ऽसि नमो नमस्ते
प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि
ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम्
प्रयागे वसते नित्यं योगशायीति विश्रुतः
विश्रुता वरणेत्वयेव सर्वपापहरा शुभा
ते उभे सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः
न तादृशो ऽस्ति गगने न भूभ्यां न रसातले
यस्यां हि भोगिनो ऽपीश प्रयान्ति भवतो लयम्
शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान्
ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थालपद्मिनीयम्
दिवापि सूर्यं पवनाप्लुताभिर्दीर्घाभिरेवं सुपताकिकाभिः
आलेश्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तरम्
यस्यां जसक्रीडनसंगतासु न स्त्रीषु संभो गृहदीर्घोकासु
न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मक्त्वा