सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः
त्रयोदशाङ्गं ते धर्म चक्रुर्मुदितमानसाः
पुत्रपौत्रार्थसंयुक्ताः सदाटारसमन्विताः
गन्तुं नाशक्तुवन् सूर्यो नक्षत्राणि न चन्द्रमाः
दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत्
शशङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम्
रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः
तान् वायसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान्
आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाथ वासरम्
मन्मानास्तु दिवसमिदमुच्चैर्ब्रुवन्ति च
उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे
संतापयञ्जगत् सर्वं नास्तमेति कथञ्चन
तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत
तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम्
प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने
रवौ शशिनि चैवान्ये ब्रह्मणो ऽन्ये हरस्य च
यदियं रजनी रम्या कृता सततकौमुदी
निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः
अशून्यशयना नाम द्वितीया सर्वकामदा
अशून्यं च महाभोगैरनस्तमितशेखरम्
दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया
तुष्टेन शंभुना दत्तं वरं चास्यै यदृच्छया
व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि
पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः
अस्माकमानन्दकरो दिवा तपति सूर्यवत्
शशङ्कनिर्जितः सूर्यो न विभाति यथा पुरा
विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम्
अतो विज्ञायते चन्द्र उदितश्च प्रतापवान्
अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम्
आसमन्ताज्जगद् ग्रस्तं त्रैलोक्यं रजनीचरैः