तत्तद् गुणवते देयं तदेवाक्षयमिच्छता
धर्मतो धनमाहार्यं यष्टव्यं चापि शक्तितः
तत् कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने
धर्मार्थकामसंप्राप्तिः परत्रेह च शोभनम्
वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामो ऽवधार्यताम्
वानप्रस्थाश्रमं धर्मं प्रवक्ष्यामो ऽवधार्यताम्
भूमौ शय्या ब्रह्मचर्यं पितृदेवातिथिक्रिया
वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम्
जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम्
आत्मज्ञानावबोधेच्छा तथा चात्मावबोधनम्
वर्णधर्माणि चान्यानि निशामय निशाचर
क्षत्रियस्यापि कथिता ये चाचारा द्विजस्य हि
गार्हस्थ्ययमुत्तमं त्वेकं शूद्रस्य क्षणदाचर
यो हापयति तस्यासौ परिकुप्यति भास्करः
भानुर्वै यतते तस्य नरस्य क्षणदाचर
यः संत्यजेच्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरस्तु
जगाम चोत्पत्य पुरं स्वकीयं मुहुर्मुहुर्धर्ममवेक्षमाणः
सम्हूयाब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः
दानं दया च क्षान्तिश्व ब्रह्मचर्यममानिता
सदाचारनिषेवित्वं परलोकप्रदायकाः
सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः
त्रयोदशाङ्गं ते धर्म चक्रुर्मुदितमानसाः
पुत्रपौत्रार्थसंयुक्ताः सदाटारसमन्विताः
गन्तुं नाशक्तुवन् सूर्यो नक्षत्राणि न चन्द्रमाः
दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत्
शशङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम्
रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः
तान् वायसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान्
आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाथ वासरम्
मन्मानास्तु दिवसमिदमुच्चैर्ब्रुवन्ति च