गृहादुच्छिष्टविण्मूत्रे पादाम्भांसि क्षिपेद् बहिः
स्नायीत देवखातेषु सरोहदसरित्सु च
नालपेद् जनविद्विष्टं वीरहीनां तथा स्त्रियम्
कृत्वा तु स्पर्शमालापं शुद्ध्यतेर्ऽकावलोकनात्
पतितापविद्धनग्नाश्चाण्डालाद्यधमाश्च ये
अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि हि
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम्
पितृदेवार्चनाद्धीनः स षण्ढः परिगीयते
न परत्रार्थमुद्यक्तो स मार्जारः प्रकीर्तितिः
तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण सुद्ध्यति
नित्यं परगुणद्वेषी स श्वान इति कथ्यते
तमाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम्
अनापदि स विद्वद्भिः पतितः परिकीर्त्यते
गोब्राह्मणस्त्रीवधकृदपविद्धः स कीर्त्यते
ते नग्नाः कीर्तिताः सद्भिस् तेषामन्नं विगर्हितम्
शरणागतं यस्त्यजति स चाण्डालो ऽधमो नरः
कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणं चरेत्
भुक्त्वान्नं तस्य शुद्ध्येत त्रिरात्रोपोषितो नरः
कदर्यस्यापि शुद्ध्येत त्रिरात्रोपोषितो नरः
न तु नैमित्तिकोच्छेदः कर्त्तव्यो हि कथञ्चन
मृते च सर्वबन्धूनामित्याह भगवान् भृगुः
प्रमे ऽह्नि चतुर्थे वा सप्तमे वास्थिसंचयम्
सोदकैस्तु क्रिया कार्या संशुद्धैस्तु सपिण्डजैः
बाले प्रव्राजि संन्यासे देशान्तरमृते तथा
गर्भस्रावे तदेवोक्तं पूर्णकालेन चेतरे
षड्रात्रं चैव वैश्यानां शूद्राणां द्वादशाह्निकम्
स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाक्रामम्
सपिण्डीकरणं कार्यं प्रेते आवत्सरान्नरैः
प्रीणनं तस्य कर्त्तव्यं यथा श्रुतिनिदर्शनात्
कुर्याद्येनास्य सुप्रीताः पितरो यान्ति राक्षस