यद्भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम्
अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा
तद्वद् द्विदलकादीनि भोज्यानि मनुरब्रवीत्
शैलदारुमयानां च तृणमूलौषधान्यपि
वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते
कार्पासिकानां वस्त्राणां सुद्धिः स्यात्सह भस्मना
पुनः पाकेन भाण्डानां मृन्मयानां च मेध्यता
रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम्
चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि
वाग्विप्रुषो द्विजेन्द्राणां संतप्ताश्चाम्बुबिन्दवः
लेपादुल्लेखनात् सेकाद् वेश्म संमार्जनार्जनात्
मृदम्बुभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये
भस्माम्बिभिश्च कांस्यानां शुद्धिः प्लावोद्रवस्य च
अन्येषामपि द्रव्याणां शुद्धिर्गन्धापहारतः
गर्दभो भारवाहित्वे श्वा मृगग्रहणे शुचिः
मारुतेनैव सुद्ध्यन्ति पक्वेष्टकचितानि च
अग्रमुद्धृत्य संत्याज्यं शेषस्य प्रोक्षणं स्मृतम्
अज्ञाते ज्ञातपूर्वे च नैव शुद्धिर्विधीयते
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च
गृहादुच्छिष्टविण्मूत्रे पादाम्भांसि क्षिपेद् बहिः
स्नायीत देवखातेषु सरोहदसरित्सु च
नालपेद् जनविद्विष्टं वीरहीनां तथा स्त्रियम्
कृत्वा तु स्पर्शमालापं शुद्ध्यतेर्ऽकावलोकनात्
पतितापविद्धनग्नाश्चाण्डालाद्यधमाश्च ये
अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि हि
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम्
पितृदेवार्चनाद्धीनः स षण्ढः परिगीयते
न परत्रार्थमुद्यक्तो स मार्जारः प्रकीर्तितिः
तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण सुद्ध्यति