भिन्नासनभाजनादीन् दूरतः परिवर्जयेत्
पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत
बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात्
मूले मृगे भाग्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु
भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम्
माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद् बुधः
ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशङ्के
गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद् रजनीचरेश
अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र
जनो ऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र
यद्भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम्
अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा
तद्वद् द्विदलकादीनि भोज्यानि मनुरब्रवीत्
शैलदारुमयानां च तृणमूलौषधान्यपि
वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते
कार्पासिकानां वस्त्राणां सुद्धिः स्यात्सह भस्मना
पुनः पाकेन भाण्डानां मृन्मयानां च मेध्यता
रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम्
चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि
वाग्विप्रुषो द्विजेन्द्राणां संतप्ताश्चाम्बुबिन्दवः
लेपादुल्लेखनात् सेकाद् वेश्म संमार्जनार्जनात्
मृदम्बुभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये
भस्माम्बिभिश्च कांस्यानां शुद्धिः प्लावोद्रवस्य च
अन्येषामपि द्रव्याणां शुद्धिर्गन्धापहारतः
गर्दभो भारवाहित्वे श्वा मृगग्रहणे शुचिः
मारुतेनैव सुद्ध्यन्ति पक्वेष्टकचितानि च
अग्रमुद्धृत्य संत्याज्यं शेषस्य प्रोक्षणं स्मृतम्
अज्ञाते ज्ञातपूर्वे च नैव शुद्धिर्विधीयते
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च