अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम्
तेनार्थसिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम्
निन्द्यो भवेन्नैव च धर्मःएदी संगं न चासत्सु नरेषु कुर्यात्
आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर
न कर्त्तव्यं गृहस्थेन वृता दारपरिग्रहम्
वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम्
भेतव्यं च भवेल्लोके वृथादारपरिग्रहात्
परस्वं नरकायैव परदाराश्च मृत्यवे
उद्क्यादर्शनं स्पर्शं संभाषं च विवर्जयेत्
तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि
भिन्नासनभाजनादीन् दूरतः परिवर्जयेत्
पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत
बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात्
मूले मृगे भाग्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु
भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम्
माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद् बुधः
ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशङ्के
गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद् रजनीचरेश
अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र
जनो ऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र
यद्भोज्यं च समुद्दिष्टं कथयिष्यामहे वयम्
अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पयसस्तथा
तद्वद् द्विदलकादीनि भोज्यानि मनुरब्रवीत्
शैलदारुमयानां च तृणमूलौषधान्यपि
वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते
कार्पासिकानां वस्त्राणां सुद्धिः स्यात्सह भस्मना
पुनः पाकेन भाण्डानां मृन्मयानां च मेध्यता
रथ्यागतमविज्ञातं दासवर्गेण यत्कृतम्
चेष्टितं बालवृद्धानां बालस्य च मुखं शुचि
वाग्विप्रुषो द्विजेन्द्राणां संतप्ताश्चाम्बुबिन्दवः