कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम्
शृणुष्वैकमनास्तच्च यदि श्रेयो ऽभिवाञ्छसि
असौ सदाचारतरुः सुकेशिन् संसेवितो येन स पुण्यभोक्त
प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः
प्रभाते यत् पठन् मर्त्यो मुच्यते पापबन्धनात्
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते
गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम्
रैभ्यो मरीचिश्च्यवनो ऋभुश्च कुर्वन्तु सर्वे मम सुप्रभातम्
सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम्
नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम्
भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम्
दुःस्वप्ननाशो ऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात्
उत्थाय पश्चाद्धरिरित्युदीर्य गच्छेत् तदोत्सर्गविधिं हि कर्तुम्
कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम्
तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत
वल्मीकमृच्चैव हि शौचनाय ग्राह्य सदाचारविदा नरेण
समाचमेदद्भिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः
केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च
होमं च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम्
मृद्गोमयं स्वस्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च
अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम्
तेनार्थसिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम्
निन्द्यो भवेन्नैव च धर्मःएदी संगं न चासत्सु नरेषु कुर्यात्
आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर
न कर्त्तव्यं गृहस्थेन वृता दारपरिग्रहम्
वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम्
भेतव्यं च भवेल्लोके वृथादारपरिग्रहात्
परस्वं नरकायैव परदाराश्च मृत्यवे
उद्क्यादर्शनं स्पर्शं संभाषं च विवर्जयेत्
तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि