तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः
प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः
पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस
महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः
वलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह
दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः
पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा
भारकच्छाः समाहेयाः सह सारस्वतैरपि
उत्तमर्णा दशार्णाश्च भोजाः किङ्कवरैः सह
तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह
सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः
निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः
त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः
एतेषु देशेषु च देशधर्मान् संकीर्त्यमानाञ् शृणु तत्त्वातो हि
अकार्पण्यं च शौचं च तपश्च रजनीचर
ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना
आचक्षध्वं न मे तृप्तिः शृण्वतः प्रतिपद्यते
तत्र धर्मो ऽस्य यस्तं च कथ्यमानं निशामय
गुरोर्निंवेद्य तच्चाद्यमनुज्ञातेन सर्वदा
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः
अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः
वानप्रस्थाश्रमं वापि चतुर्थं स्वेच्छयात्मनः
गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना
एवं जयति मृत्युं स द्विजः शालकटङ्कट
असमानर्षिकुलजां कन्यामुद्वहेद् निशाचर
सम्यक् संप्रीणयेद् भक्त्या सदाचाररतो द्विजः
लक्षणं श्रोतुमिच्ःआमि कथयध्वं तमद्य मे
लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर
न ह्याचारविहिनस्य भद्रमत्र परत्र च
भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्तते