उदङ्मध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः
मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्जालकाश्याः सह कोसलाभिः
शकाश्चैव समशका मध्यदेश्य जनास्त्विमे
अपरान्तास्तथा शूद्राः पह्लावाश्च सखेटकाः
शातद्रवा ललित्थाश्च पारावतसमूषकाः
श्रत्रियाः प्रतिवैश्याश्च वैश्यशूद्रकुलानि च
चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः
लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सहा
तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा
माण्डव्या मालवीयाश्च उत्तरापथवासिनः
तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः
प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः
पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस
महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः
वलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह
दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः
पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा
भारकच्छाः समाहेयाः सह सारस्वतैरपि
उत्तमर्णा दशार्णाश्च भोजाः किङ्कवरैः सह
तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह
सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः
निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः
त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः
एतेषु देशेषु च देशधर्मान् संकीर्त्यमानाञ् शृणु तत्त्वातो हि
अकार्पण्यं च शौचं च तपश्च रजनीचर
ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना
आचक्षध्वं न मे तृप्तिः शृण्वतः प्रतिपद्यते
तत्र धर्मो ऽस्य यस्तं च कथ्यमानं निशामय
गुरोर्निंवेद्य तच्चाद्यमनुज्ञातेन सर्वदा
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः