विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः
विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः
वातन्धमो वैद्युतश्च मैनाकः सरसस्तथा
उज्जायनः पुष्पगिरिरर्बुदो रैवतस्तथा
श्रीपर्वतः कोङ्गणश्च शतशऽन्ये ऽपि पर्वताः
तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ् निशामयः
शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः
गोमती धूतपापा च बाहुदा सदृषद्वती
सरूश्च सलौहित्या हिमवत्पादनिःसृताः
पर्णाशा नन्दिनी चैव पावनी च मही तथा
सिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः
मन्दाकिनी दशार्णा च चित्रकूटापवाहिका
तथान्या पिप्पलश्रोणी विपाशा वञ्जुलावती
ऋक्षपादप्रसूता च तथान्या बलवाहिनी
वेण वैतरणी चैव सिनीवाहुः कुमुद्वती
विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः
तुङ्गभद्रा सुप्रयोगा वाह्या कावेरिरेव च
एतास्त्वपि महानद्यः सह्यपादविनिर्गताः
सिनी चैव सुदामा च शुक्तिमत्प्रभवास्त्विमाः
जगतो मातरः सर्वाः सर्वाः सागरयोषितः
उदङ्मध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः
मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्जालकाश्याः सह कोसलाभिः
शकाश्चैव समशका मध्यदेश्य जनास्त्विमे
अपरान्तास्तथा शूद्राः पह्लावाश्च सखेटकाः
शातद्रवा ललित्थाश्च पारावतसमूषकाः
श्रत्रियाः प्रतिवैश्याश्च वैश्यशूद्रकुलानि च
चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः
लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सहा
तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा
माण्डव्या मालवीयाश्च उत्तरापथवासिनः