भवान् यथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः
पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा श्रमीणां गृहस्थः
फलेषु चूतो मुकुलेष्वशोकः सर्वौषधीनां प्रवरा च पथ्या
श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरणेषु यद्वत्
शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव
महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः
दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना
न निष्कृतिश्चास्ति कृतघ्नवृत्तेः सुहृत्कृतं नाशयतो ऽब्दकोटिभिः
जम्बूद्वीपस्य संस्थानं कथयन्तु महर्षयः
नवभेदं सुविस्तीर्णं स्वर्गसोक्षफलप्रदम्
पूर्व उत्तरतश्चापि हिरण्यो राक्षसेश्वर
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपशचिमे
उत्तरे च कुरुर्वर्षः कल्पवृक्षसमावृतः
इलावृताद्या ये चाष्टौ वर्षं मुक्त्वैव भारतम्
विपर्ययो न तेष्वस्ति नोत्तमाधममध्यमाः
सागरान्तरिताः सर्वे अगम्याश्च परस्परम्
नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा
कुमाराख्यः परिख्यातो द्वीपो ऽयं दक्षिणोत्तरः
आन्ध्रा दक्षिमते वीर तुरुष्कास्त्वपि चोत्तरे
इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः
विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः
वातन्धमो वैद्युतश्च मैनाकः सरसस्तथा
उज्जायनः पुष्पगिरिरर्बुदो रैवतस्तथा
श्रीपर्वतः कोङ्गणश्च शतशऽन्ये ऽपि पर्वताः
तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ् निशामयः
शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः
गोमती धूतपापा च बाहुदा सदृषद्वती
सरूश्च सलौहित्या हिमवत्पादनिःसृताः
पर्णाशा नन्दिनी चैव पावनी च मही तथा