सरस्वती यत्र पुण्या स्तन्दने सरितां वरा
भिक्षां प्रयच्छ भगवन् महाकापालिको ऽस्मि भोः
सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर
सव्यं नारायणभुजं ताडयामास वेगवान्
एका गगनमाक्रम्य स्थिता ताराभिमम्डिता
अत्रिस्तस्मात् समुद्भूतो दुर्वासाः शङ्करांशतः
तस्माच्छिशुः समभवत् संनद्धकवचो युवा
इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस् तालफलं यथैव
निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम्
जग्राह तूणानि तथाक्षयाणि युद्धाय वीरः स मतिं चकार
दिव्यं सहस्रं परिवत्सराणां ततो हरो ऽभ्येत्य विरञ्चिमूचे
महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव
पराजितश्चेष्यते ऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा
नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः
संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः
सरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम्
कासि त्वमागता रौद्रे केनाप्यर्थेन तद्वद
ब्रह्मवध्यास्मि संप्राप्तां मां प्रोतीच्छ त्रिलोचन
त्रिशूलपाणिनं रुद्रं संप्रतापितविग्रहम्
आगच्छन्न ददर्शाथ नरनारायणावृषी
जगाम यमुनां स्नातुं सापि शुष्कजलाभवत्
प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता
सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया
स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत
समायुतो योगयुतो ऽपि पापान्नावाप मोक्षं जलदध्वजो ऽसौ
तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वाजम्
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत्
शङ्खचक्रगदापाणे वासुदेव नमो ऽस्तु ते
नमस्ते निर्गुणानन्त अप्रर्क्याय वेधसे ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमो ऽस्तु ते
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम्