ते पिष्यन्ते शिलापेषे शोष्यनते ऽपि च शोषकैः
श्रुत्क्षामाः शुष्कताल्वोष्ठाः पात्यन्ते वृश्चिकाशने
ते वह्नितप्तां कूटाग्रामालिङ्गन्ते च शाल्मलीम्
तेषामध्यापको यश्च स शिलां शिरसा वहेत्
ते पात्यन्ते च विण्मूत्रे दुर्गन्धे पूयपूरिते
परस्परं भक्षयन्ते मांसानि स्वानि बालिशाः
तद्गर्भश्राद्धभुग् यश्च कृमीन्भक्षेत्पिपीलिकाः
याजको यजमानश्च सो ऽस्मान्तः स्थूलकीटकः
क्षिप्यन्ते वृकभक्षे ते नरके रजनीचर
तथा गोभूमिहर्त्तरो गोस्त्रीबालहनाश्च ये
सोमविक्रयिणो ये च वेदविक्रयिणस्तथा
कूटसाक्ष्यप्रदा ये च ते महारौरवे स्थिताः
तावच्चैवान्धतामिस्रे असिपत्रवने ततः
प्रपातो भवते तेषां यैरिदं दुष्कृतं कृतम्
ते सर्वे क्रमशः प्रोक्ताः कृतघ्ने लोकनिन्दिते
महोरगाणां प्रवरो ऽप्यनन्तो यथा च भूतेषु मही प्रधाना
क्षेत्रेषु यद्वत्कुरुजङ्गलं वरं तीर्थेषु यद्वत् प्रवरं पृथूदकम्
लोकेषु यद्वत्सदनं विरिञ्चेः सत्यं यथा धर्मविधिक्रियासु
तपोधनानामपि सुम्भयोनिः श्रुतिर्वरा यद्वदिहागमेषु
मनुः स्मृतीनां प्रवरो यथैव तिथीषु दर्शा विषुवेषु दानम्
भवान् यथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः
पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा श्रमीणां गृहस्थः
फलेषु चूतो मुकुलेष्वशोकः सर्वौषधीनां प्रवरा च पथ्या
श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरणेषु यद्वत्
शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव
महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः
दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना
न निष्कृतिश्चास्ति कृतघ्नवृत्तेः सुहृत्कृतं नाशयतो ऽब्दकोटिभिः
जम्बूद्वीपस्य संस्थानं कथयन्तु महर्षयः
नवभेदं सुविस्तीर्णं स्वर्गसोक्षफलप्रदम्