योजनानां परिख्यातमष्टमं नरकोत्तमम्
करपत्रस्तथैवोक्तस्तथान्यः श्वानभोजनः
तथाष्टादशमी प्रोक्ता घोरा वैतरणी नदी
संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन्
एतद् वदन्तु विप्रेन्द्राः परं कौतूहलं मम
स्वकर्मफलभोगार्थं नरकान् मे शृणुष्व तान्
ये पुराणेतिहासार्थान् नाभिनन्दन्ति पापिनः
याज्योपाध्याययोर्यैश्च कृतो भेदो ऽधमैर्मिथः
करपत्रेण पाट्यन्ते ते द्विधा यमकिङ्करैः
बालव्यजनहर्त्तारः करम्भसिकताश्रिताः
स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः
तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पत्त्रिणः
वज्रतुण्डनखा जिह्वामाकर्षन्ते ऽस्य वायसाः
मज्जन्ते पूयविम्मूत्रे त्प्रतिष्ठे ह्यधोसुखाः
अभुक्तवत्सु ये ऽश्नन्ति बालपित्रग्निमातृषु
सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः
विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च
असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम्
क्षिप्यन्ते हि करास्तेषां तप्तसुम्भे सुदारुणे
तेषां नेत्रगतो वह्निर्धम्यते यमकिङ्करैः
जामयो गुरवो वृद्धा यैः संस्पृष्टाः पदा नृभिः
क्षिप्यन्ते रौरवे घोरे ह्याजानुपरिदाहिनः
तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदने ऽद्भुताः
निन्दा निशामिता यैस्तु पापानामिति कुर्वताम्
श्रवणेषु निखन्यन्ते धर्मराजस्य किङ्करैः
कूपवापीतडागांश्च भङ्क्त्वा विध्वंसयन्ति ये
कर्त्तिकाभिः सुतीक्ष्णीभिः सुरौद्रैर्यमकिङ्करैः
तेषां गुदेव चान्त्राणि विनिःकृन्तन्ति वायसाः
दुर्भिक्षे संभ्रमे चापि स श्वभोज्ये निपात्यते
पतन्ति यन्त्रपीडे ते ताड्य मानास्तु किङ्करैः