कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज
पैशाचमाश्रिता धर्मं कर्मान्ते ते विनाशिनः
दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत्
रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः
कियन्मात्राणि मार्गेण का च तेषु स्वरूपता
सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः
रौरवो नाम नरकः प्रथमः परिकीर्त्तितः
द्वितीयो द्विगुस्तस्मान्महारौरव उच्यते
अन्धतामिस्रको नाम चतुर्थो द्विगुमः परः
अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम्
योजनानां परिख्यातमष्टमं नरकोत्तमम्
करपत्रस्तथैवोक्तस्तथान्यः श्वानभोजनः
तथाष्टादशमी प्रोक्ता घोरा वैतरणी नदी
संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन्
एतद् वदन्तु विप्रेन्द्राः परं कौतूहलं मम
स्वकर्मफलभोगार्थं नरकान् मे शृणुष्व तान्
ये पुराणेतिहासार्थान् नाभिनन्दन्ति पापिनः
याज्योपाध्याययोर्यैश्च कृतो भेदो ऽधमैर्मिथः
करपत्रेण पाट्यन्ते ते द्विधा यमकिङ्करैः
बालव्यजनहर्त्तारः करम्भसिकताश्रिताः
स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः
तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पत्त्रिणः
वज्रतुण्डनखा जिह्वामाकर्षन्ते ऽस्य वायसाः
मज्जन्ते पूयविम्मूत्रे त्प्रतिष्ठे ह्यधोसुखाः
अभुक्तवत्सु ये ऽश्नन्ति बालपित्रग्निमातृषु
सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः
विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च
असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम्
क्षिप्यन्ते हि करास्तेषां तप्तसुम्भे सुदारुणे
तेषां नेत्रगतो वह्निर्धम्यते यमकिङ्करैः