स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता
वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता
स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा
सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते
विद्याधराणां धर्मो ऽयं भवान्यां भक्तिरेव च
कौशल्यं सर्वशिल्पानां धर्मः किंपुरुषः स्मृतः
सर्वत्र कामचारितवं धर्मो ऽयं पैतृकः स्मृतः
नियमाद्धर्मवेदित्वमार्थो धर्मः प्रचक्ष्यते
अकार्पण्यमनायासं दयाहिंसा क्षमा दमः
शङ्करे भास्करे देव्यां धर्मो ऽयं मानवः स्मृतः
अहङ्कारमशौण्डीर्यं धर्मो ऽयं गुह्यकेष्विति
स्वाध्यायं त्र्यम्बके भक्तिर्धर्मो ऽयं राक्षसः स्मृतः
पिशाचानामयं धर्मः सदा चामिषगृध्नुता
ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः
तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ
ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु
जलोपरि महीयं हि नौरिवास्ते सरिज्जले
कर्णिकाकारमत्युच्चं स्थापयामास सत्त्म
स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः
तल्लक्षं योजनानां च प्रमाणेन निगद्यते
तस्यापि द्विगुणः प्लक्षो बाह्यतः संप्रतिष्ठितः
द्विगुणः शाल्मलिद्वीपो द्विगुणो ऽस्य महोदधेः
घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः
ततो ऽपि द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः
एते च द्विगुणाः सर्वे परस्परमपि स्थिताः
जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः
कोट्यश्चतस्रो लक्षाणां द्विपञ्चाशच्च राक्षस
लक्षमण्डकटाहेन समन्तादिभिपूरितम्
गदिष्यामस्तव वयं शृमुष्व त्वं निशाचर
शाकान्तेषु न तेष्वस्ति युगावस्था कथञ्चन