तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः
प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम्
रेमे निशाचरैः सार्द्धू सदा धर्मपथि स्थितः
तत्राश्रमांस्तु ददृशो ऋषीणां भावितात्मनाम्
कथयन्तु भवन्तो मे न चौवाज्ञापयाम्यहम्
केन पूज्यस्तथा सत्सु केनासौ सुखमेधते
प्रोचुर्विमृस्य श्रेयोर्ऽथमिह लोके परत्र च
यद्धि श्रेयो भवेद् वीर इह चामुत्र चाव्ययम्
तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत्
यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम्
स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता
वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता
स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा
सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते
विद्याधराणां धर्मो ऽयं भवान्यां भक्तिरेव च
कौशल्यं सर्वशिल्पानां धर्मः किंपुरुषः स्मृतः
सर्वत्र कामचारितवं धर्मो ऽयं पैतृकः स्मृतः
नियमाद्धर्मवेदित्वमार्थो धर्मः प्रचक्ष्यते
अकार्पण्यमनायासं दयाहिंसा क्षमा दमः
शङ्करे भास्करे देव्यां धर्मो ऽयं मानवः स्मृतः
अहङ्कारमशौण्डीर्यं धर्मो ऽयं गुह्यकेष्विति
स्वाध्यायं त्र्यम्बके भक्तिर्धर्मो ऽयं राक्षसः स्मृतः
पिशाचानामयं धर्मः सदा चामिषगृध्नुता
ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः
तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ
ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु
जलोपरि महीयं हि नौरिवास्ते सरिज्जले
कर्णिकाकारमत्युच्चं स्थापयामास सत्त्म
स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः
तल्लक्षं योजनानां च प्रमाणेन निगद्यते