अभ्येत्य ताडयामास मार्गणैः कायदारणैः
दुष्टश्च वेगात् पयसामधीशं मुहुर्मुहुः पादतलैर्ममर्द
पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा
उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम्
साट्टं सन्यत्रार्गलहर्म्यभूमि पुरं सुकेशेरिव भस्करेण
ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम्
प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन
पाशेन बद्ध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः
समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम्
गदां समुद्भ्राम्य जलेश्वरस्तु दुद्राव तान् जम्भमुखानरातीन्
पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्ट्या
ततो ऽन्धकः सत्वरितो ऽभ्युपेयाद् रणाय योद्धुं जलनायकेन
तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स च जलेश्वराय
विवेश वेगात् पयसां निधानं ततो ऽन्धको देवबलं ममर्द
तमभ्ययाद् दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः
शक्त्या मयं शम्बरमेत्य कण्ठे संताड्य जग्राह बलान्महर्षे
मयः प्रजज्वाल च शम्वरो ऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते
सिंहाभिपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः
आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च
रक्षस्व चाभ्येत्य न शक्यते ऽन्यैर्हुताशनो वारयितुं रणाग्रे
उद्यम्य वेगात् परिघं हुताशं समाद्रवत् तिष्ठ तिष्ठ ब्रुवन् हि
उत्पाट्य भूम्यां च विनिष्पिपेष ततो ऽन्धकः पावकमाससाद
समाहतो ऽग्निः परिमुच्य शम्बरं तथान्धकं स त्वरितो ऽभ्यधावत्
स ताडितो ऽग्निर्दितिजेश्वरेण भयात् प्रदुद्राव रणाजिराद्वि
यान् याञ्शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान्कृतवान् रणाजिरात्
संपूज्यमानो दनुपुङ्गवैस्तु तदान्धको भूमिमुपाजगाम
सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्त
पातितो भुवि सूर्योण तत्कदा कुत्र कुत्र च
किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि
यथोक्तवान् स्वयंभूर्मां कथ्यमानां मयानघ