मन्दाकिनीवेगनिभां वहन्तीम् प्रवर्तयन्तो भयदां नदीं च
पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभै
नयन्ति तान्प्सरसां गणाग्र्या हता रणे ये ऽभिमुखास्तु शूराः
सहस्रक्षो महाचापमादाय व्यसृजच्छरान्
पुरन्दराय चिक्षेप शरान् बर्हिणवाससः
रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि
चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः
तान् भस्मसात्तदा चक्रे नगानिव हुताशनः
समाप्लुत्य रथात्तस्थौ भुवि बाहु सहायवान्
भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ
पातयामास बलवान् जगर्ज च तदान्धकः
ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम्
गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम्
पाणिना वज्रमादाय प्रविवेशामरावतीम्
पातयामा द्रत्येन्द्रः पादमुष्टितलादिभिः
समभ्यधावत् प्रह्लादं हन्तुकामः सुरोत्तमः
हिरण्यकशिपोः पुत्रश् चापमानम्य वेगवान्
शातयित्वा प्रचिक्षेप दण्डं लोकभयङ्करम्
जज्वाल कालग्निनिभो यद्वद् दग्धुं जगत्त्रयम्
प्राक्रोशन्ति हतः कष्टं प्रह्लादो ऽयं यमेन हि
प्रोवाच मा भैष्टच मयि स्थिते को ऽयं सुराधमः
जगर्ज च महानादं यथा प्रावृषि तोयदः
साधुवादं ददुर्हृष्टा दैत्यदानवयूथपाः
दुःसहं दुर्धरं मत्वा अन्तर्धानमगाद् यमः
दारयामास बलवान् देवसैन्यं समन्ततः
गदया दारयामास तमभ्यागाद् विरोचनः
जलेशं ताडयामास मुद्गरैः कणपैरपि
अभिद्रुत्य बबन्धाथ पाशैर्मत्तगजं बली
वरुणं च समभ्येत्य मध्ये जग्राह नारद
ममर्द च तथा पद्भ्यां सवाहं सलिलेश्वराम्