पद्भ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ
रजसा संवृतो लोकी पिङ्गवर्णेन नारद
स्वानेवानये निजघ्नुर्वै परानन्ये च सुव्रत
गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात्
परस्परं तु प्रत्यघ्नन्नन्योन्यजयकाङ्क्षिणः
प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः
गजकुम्भमाहकूर्मा शरमीना दुरत्यया
अन्त्रशैवलसंकीर्णा पताकाफेनमालिननी
वनवायसकादम्बा गोमायुश्वापदाकुला
रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे
समुत्तरन्तो वेगेन योधा जयधनेप्सवः
रक्षांसि यक्षाश्च सुसप्रहृष्टाः पिशाचयूथास्त्वभिरेमिरे च
वसां विलुम्पन्ति च वनिस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि
शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव
युद्धं बभौ प्राणपणेपविद्धं द्वन्द्वे ऽतिशस्त्राक्षगतो दुरोदरः
मत्तेभष्टष्टस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम्
प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यातास्त्रः
वायुं समभ्येत्य च शम्बरो ऽथ मयो हुताशं युयुधे मुनीन्द्र
सुरान् हुताशार्कवसूरकेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः
मुञ्चन्ति नाराचगणान् सहस्रश अगच्छ हे तिष्ठसि किं ब्रुवन्तः
मन्दाकिनीवेगनिभां वहन्तीम् प्रवर्तयन्तो भयदां नदीं च
पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभै
नयन्ति तान्प्सरसां गणाग्र्या हता रणे ये ऽभिमुखास्तु शूराः
सहस्रक्षो महाचापमादाय व्यसृजच्छरान्
पुरन्दराय चिक्षेप शरान् बर्हिणवाससः
रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि
चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः
तान् भस्मसात्तदा चक्रे नगानिव हुताशनः
समाप्लुत्य रथात्तस्थौ भुवि बाहु सहायवान्
भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ