आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः
निर्जगामातिवेगेन गजवाजिराथादिभिः
यभविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः
एकैकस्यापि धर्मत्र परं कौतूहलं मम
वाहनानि समासेन एकैकस्यानुपूर्वशः
श्वेतवर्णो गजपतिर्देवराजस्य वाहनम्
पौण्ड्रको नाम महिषो धर्मराजस्य नारद
शिशुमारो दिव्यगतिः वाहनं वरुणस्य च
अम्बिकापादसंभूतो वाहनं धनदस्य तु
श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च
हरयो रथवाहाश्च आदित्या मुनिसत्तम
किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ
सुकारूढाश्च कवयो गन्धर्वाश्च पदातिनः
संनह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः
दैत्यानां वाहनान्येवं यथावद् वक्तुमर्हसि
कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि
कृष्णवर्णैः सहस्रारस् त्रनल्वपरिमाणवान्
उह्यमानस्तथाष्टाभिः श्वेतरुक्ममयः सुभः
जम्भस्य तु रथो द्वियो हयैः काञ्जनसन्निभैः
शम्बरस्य विमानो ऽभूदयः शङ्कोर्मृगाधिपः
पद्भ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ
रजसा संवृतो लोकी पिङ्गवर्णेन नारद
स्वानेवानये निजघ्नुर्वै परानन्ये च सुव्रत
गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात्
परस्परं तु प्रत्यघ्नन्नन्योन्यजयकाङ्क्षिणः
प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः
गजकुम्भमाहकूर्मा शरमीना दुरत्यया
अन्त्रशैवलसंकीर्णा पताकाफेनमालिननी
वनवायसकादम्बा गोमायुश्वापदाकुला
रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे