रात्र्यन्ते सृजते लोकान् राजसं रूपास्थितः
स्रष्टा चराचरस्यास्य जगतो ऽद्भुतदर्शनः
शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन्
येनाक्रान्ताव् उभौ देवौ तावेव ब्रह्मशङ्करौ
को भवानिह संप्राप्तः केन सृष्टो ऽसि मां वद
भवतो जनकः को ऽत्र जननी वा तदुच्यताम्
परिवादो ऽभवत् तत्र उत्पत्तिर्भवतो ऽभवत्
धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम्
तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी
क्रोधान्धकारितं रुद्रं पञ्चमो ऽथ मुखो ऽब्रोवीत्
दिग्वासा वृषभारूढो लोकक्षयकरो भवान्
निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः
श्वेतं च रक्तं कनकावदातं नीलं तथा पिङ्गजटं च शुभ्रम्
समाहतस्याथ जलस्य बुद्बुदा भवन्ति किं तेषु पराक्रमो ऽस्ति
नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम्
पतते न कदाचिच्च तच्छङ्करकराच्छिरः
सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी
चतुर्भुजो महातूणी आदित्यसमदर्शनः
भवान् पापसमायुक्तः पापिष्ठं को जिघांसति
त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम्
सरस्वती यत्र पुण्या स्तन्दने सरितां वरा
भिक्षां प्रयच्छ भगवन् महाकापालिको ऽस्मि भोः
सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर
सव्यं नारायणभुजं ताडयामास वेगवान्
एका गगनमाक्रम्य स्थिता ताराभिमम्डिता
अत्रिस्तस्मात् समुद्भूतो दुर्वासाः शङ्करांशतः
तस्माच्छिशुः समभवत् संनद्धकवचो युवा
इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस् तालफलं यथैव
निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम्
जग्राह तूणानि तथाक्षयाणि युद्धाय वीरः स मतिं चकार