मत्पितुर्नाशनकरो भवानपि नृकेसरी
सूर्यो मृगाङ्को ऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो
त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव
नान्यथा त्वं प्रशक्तो ऽसि जेतुं सर्वगताव्यय
भक्त्या त्वनान्यया चाहं त्वया दैत्य पराजितः
दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि
तन्मे पापं लयं यातु शारीरं मानसं तथा
नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे
द्वितीयं प्रार्थय वरं तं ददामि तवासुर
देवार्चने च निरता त्वच्चित्ता त्वत्परायणा
तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन्
त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम
अजरश्चामरश्चापि मत्प्रसादाद् भविष्यसि
न कर्मबन्धो भवतो मच्चित्त्स्य भविष्यति
स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम्
कथं राज्यं समादास्ये परित्यक्तं जगद्गुरो
हितोपदेष्टा दैत्यानां दानवानां तथा भव
प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम्
निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद
ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः
पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य
अभिषिक्तो जानतापि राजधर्मं सनातनम्
ललो ऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे
देवादिभिः सह कथं समास्ते तद् वदस्व मे
तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम्
अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च
शुक्रं पुरोहितं कृत्वा समध्यास्ते ततो ऽन्धकः
आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत्
तैः समं मेरुशिखरं जगामाद्भुतदर्शनम्
समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ