तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम्
अब्रवीद्वचनं हृष्टः समाहूयान्धकं मुनेष
मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज
प्रह्लादो ऽपि तदागच्छत् पुण्यं बदरिकाश्रमम्
कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः
किमर्थं प्रणतो ऽसीह मामजित्वा महासुर
त्वं हि नारायणो ऽनन्तः पीतवासा जनार्दनः
त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः
जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः
महामीनो हयशिरास्त्वमेव वरकच्छपः
मत्पितुर्नाशनकरो भवानपि नृकेसरी
सूर्यो मृगाङ्को ऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो
त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव
नान्यथा त्वं प्रशक्तो ऽसि जेतुं सर्वगताव्यय
भक्त्या त्वनान्यया चाहं त्वया दैत्य पराजितः
दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि
तन्मे पापं लयं यातु शारीरं मानसं तथा
नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे
द्वितीयं प्रार्थय वरं तं ददामि तवासुर
देवार्चने च निरता त्वच्चित्ता त्वत्परायणा
तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन्
त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम
अजरश्चामरश्चापि मत्प्रसादाद् भविष्यसि
न कर्मबन्धो भवतो मच्चित्त्स्य भविष्यति
स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम्
कथं राज्यं समादास्ये परित्यक्तं जगद्गुरो
हितोपदेष्टा दैत्यानां दानवानां तथा भव
प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम्
निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद
ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः