स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः
श्रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति
तथा पुराणश्रवणाद् दुरितानां विनाशनम्
शरीरे च कुले ब्रह्मन् यः श्रुणोति च वामनम्
स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहिनपापः
कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे
गच्छेन्मया नारद ते ऽद्य चोक्तं यद् राजसूयस्य फलं प्रयच्छेत्
प्रापनोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मे
अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके
यत्तत्फलं संप्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात्
प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु
सर्वपापानि नश्यन्ति वामनस्य सदा मुदे
द्विजस्य निन्दारतिहिनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे
तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः
वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम्
असूयारहितं विप्र सर्वसम्पत्प्रदायकम्