ज्यामघो विष्णुनिलयं गत इत्यनुशुश्रुमः
व्रजन्ति नरशार्दूल विष्णुलोकजिगीषवः
पौराणिकान् विशेषेण सदाचाररताञ्शुचीन्
विभवे सति देवस्य प्रीणनं कुरु चक्रिणः
नरा न सीदन्ति बले समाश्रिता विभुं जगन्नाथमनन्तमच्युतम्
संपूजितस्तेन विमुक्तिमाययौ संपूर्णकामो हरिपादभक्तः
महेन्द्रशिल्पिप्रवरो ऽथ केशवं स कारयामास महामहीयान्
क्रिया महात्मा यवशर्कराद्यां बलिं चकाराप्रतिमां मधुद्रुहः
गेयं स धर्म्यश्रवणं च धीमान् पौराणिकैर्विप्रवरैरकारयत्
जगत्पतिर्दिव्यवपुर्जनार्दनस्तस्थौ महात्मा बलिरक्षणाय
द्वारि स्थितो न प्रददौ प्रवेशं प्राकारगुप्ते बलिनो गृहे तु
प्रासादमध्ये हरिमीशितारमभ्यर्चयामास सुरर्षिमुख्यम्
सस्मार नित्यं हरिभषितानि स तस्य जातो विनयाङ्कुशस्तु
तथ्यानि पथ्यानि परत्र चेह पितामहस्येन्द्रसमस्य वीरः
स्निग्धानि पश्चान्नवनीतशुद्धा मोदन्ति ते नात्र विचारमस्ति
वृद्धवाक्यैषधा नूनं कुर्वन्ति किल निर्विषम्
या तृप्तिर्जायते पुंसा सोमपाने कुतस्तथा
ते शोच्या बनधूनां जीवन्तो ऽपीह मृततुल्याः
येषां मोक्ष्यितारे वै तेषां सान्तिर्न विद्यते
वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथञ्चन
स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः
श्रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति
तथा पुराणश्रवणाद् दुरितानां विनाशनम्
शरीरे च कुले ब्रह्मन् यः श्रुणोति च वामनम्
स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहिनपापः
कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे
गच्छेन्मया नारद ते ऽद्य चोक्तं यद् राजसूयस्य फलं प्रयच्छेत्
प्रापनोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मे
अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके
यत्तत्फलं संप्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात्