तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः
वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः
इन्धनादीनि च तथा माधवप्रीणनाय तु
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः
विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता
हृषीकेशप्रीणनार्थं लवणं सगुडोदनम्
प्रीत्यर्थं पद्मनाभस्य देयमाश्वयुजे नरैः
दामोदरस्य तुष्ट्यर्थं प्रदद्यात् कार्तिके नरः
दात्वयं केशवप्रीत्यै मासि मार्गशिरे नरैः
नारायणस्य तुष्ट्यर्थं पौषे देयानि भक्तितः
पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम्
तत्तद्वि देयं प्रीत्यर्थं देवदेवाय चक्रिणे
दत्त्वारामान् पुष्पफलाभिपन्नान् भोगान् भुङ्क्ते कामातः श्लाघनीयान्
तारयेदात्मना सार्धं विष्णोर्मन्दिरकारकः
पुरतो यदुसिंहस्य ज्यामघस्य तपस्विनः
हरिमन्दिरकर्ता यो भविष्यति शिचिव्रतः
सम्मार्जनं च धर्मात्मा करिष्यति च भक्तितः
दास्यते देवदेवाय दीपं पुष्पानुलेपनम्
विमुक्तपापो भवति विष्ण्वायतनचित्रकृत्
चकारायतनं भूम्यां ख्यं च लिम्पतासुर
नानाधातुविकारैश्च पञ्चवर्णैश्च चित्रकैः
सुगन्धितैलपूर्णानि घृतपूर्णानि च स्वयम्
मञ्जिष्ठा नवरङ्गीयाः श्वेतपाटलिकाश्रिताः
लतापल्लवसंछन्ना देवदारुभिरावृताः
पौरोगवविधानज्ञै रत्नसंस्कारिभिर्द्दढै
श्रोत्रिया ज्ञानसम्पन्ना दीनान्धविकलादयः