कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत् प्रशंसन्ति देवा
पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण
या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि
कानि दानानि शस्तानि प्रीणनाय जगद्गुरोः
कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै
तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि
बले दानानि दीयन्ते तानूचुर्मुनयो ऽक्षयान्
तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत्
एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम्
एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः
सो ऽपि दिव्या तनुर्विष्णोस्तस्मात् तामर्चयेन्नरः
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च
बाणञ्च चम्पकाशोकं करवीरं च यूथिका
तिलकं च जपाकुसुमं पीतकं नागरं त्वपि
सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम्
तमालामलकीपत्रं शस्तं केशवपूजने
नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः
वनस्पतीनामर्च्येत तथा दूर्वाग्रपल्लवैः
उशीरपद्मकाभ्यां च तथा कालीयकादिना
शङ्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै
तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः
वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः
इन्धनादीनि च तथा माधवप्रीणनाय तु
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः
विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता
हृषीकेशप्रीणनार्थं लवणं सगुडोदनम्