ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः
सा तु जन्मसहस्रेण न तपोभिरवाप्यते
यस्य नास्ति परा भक्तिः सततं मधुसूदने
वृथा तपश्च कीर्तिश्च यो द्वेष्टि मधुसूदनम्
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्
ते नाम स्मरणाद्विष्णोर्नासं यान्ति महासुर
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात्
प्राप्यन्ते ये तु कृष्णस्य नमस्कारपरैर्न रैः
सुचीर्णतपसां नॄणां तता फलं न कदाचन
ते लभन्त्युपवासस्य फलं नासत्यत्र संशयः
तत्प्रसादात् परां सिद्धिं बले प्राप्स्यसि शाश्वतीम्
तमेवाश्रित्य देवेशं सुखं प्राप्यसि पुत्रक
सर्वत्रगं शुभदं ब्रह्ममयं पुराणम् ते यान्ति वैष्णवपदं ध्रुवमक्षयञ्च
ते धौतपाण्डुरपुटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम्
ध्यानेन तेन हतकिल्बषवेदनास्ते मातुः पयोधररसं न पुनः पिबन्ति
पद्मालयावदनपङ्कजषट्पदाख्यं नूनं प्रयान्ति सदनं मधुघातिनस्ते
ते मुक्तपापाः सुखिनो भवन्ति यथामृतप्राशनतर्पितास्तु
कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत् प्रशंसन्ति देवा
पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण
या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि
कानि दानानि शस्तानि प्रीणनाय जगद्गुरोः
कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै
तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि
बले दानानि दीयन्ते तानूचुर्मुनयो ऽक्षयान्
तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत्
एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम्
एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः