परमामापदं प्राप्य सस्मार स्वपितामहम्
दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा
तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि
विचिन्त्य प्राह वचनं संसारे यद्वितं परम्
प्रवक्ष्यामि हितं ते ऽद्य तथानेयेषां हितं बले
विषमविषयतोये मज्जतामप्लावानां भवति शरणमेको विष्णुपोतो नराणाम्
परिहर मधुसूदनप्रन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्
ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति
तावेव केवलं शलाघ्यौ यौ तत्पूजाकरौ करौ
न यौ पूजितुं शक्तौ हरिपादाम्बुजद्वयम्
रोगोवान्यो न सा जिह्वा या न वक्ति हरेर्गुणान्
यः पादपङ्कजं विष्णोर्न पूजयति भक्तितः
मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम्
दृश्यं स्पृस्यमदृश्यञ्च तत्सर्वं केशवात्मकम्
तेनार्चिता न संदेहो लोकाः सामरदानवाः
तथा गुणा हि देवस्य त्वसंख्यातास्तु चक्रिणः
समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः
न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च
न तेषां यमसालोक्यं न च ते नरकौकसः
विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम्
ततो ऽदिकां गतिं यान्ति विष्णुभक्ता नरोत्तमाः
सा गतिर्गदिता दैत्य भगवत्सेविनामपि
प्रविशन्ति महात्मानं तद्भक्ता नान्यचेतसः
शुचयस्ते महात्मानस्तीर्थभूता भवन्ति ते
वैकुण्ठं खड्गपरशुं भवबन्धसमुच्छिदम्
क्षेत्रेषु वसते नित्यं क्रीडन्नास्ते ऽमितद्युतिः
येषां विष्णुः प्रियोन्त्यन्ते विष्णोः सततं प्रियाः
ध्यायेद् दामोदरं यस्तु भक्तिनम्रोर्ऽचयेत वा
स्तुवन्त्यप्यभिशृण्वन्ति दुर्गण्यतितरन्ति ते
प्रहृष्यति मनो येषां दुर्गाण्यतितरन्ति ते